आद्या लिङ्गवती यथा— एकः, एका, एकम्, द्वौ, द्वे, उभौ, उभे, त्रयः, तिस्त्रः, त्रीणि, चत्वारः, चतस्त्रः, चत्वारीति।
द्वितीया (अलिङ्गवती) यथा— पञ्च प्रातिपदिकार्थाः (मभा. ५.३.७४), पञ्च वृत्तयः, पञ्च पदजातानि, षड् विषयाः, षड् बुद्धयः, षडिन्द्रियाणि, अष्टौ वसवः, अष्टौ मूर्त्तयः, अष्टौ वर्णस्थानानि, दश दिशः, षोडश पदार्थाः, अष्टादश पुराणानि' इति।
सर्वनामानि द्विधा १. सर्वादीनि २. असर्वादीनि च। तेषु—
आद्यानि यथा — 'सर्व, विश्व, अन्य, इतर, कतम, यः, सः, एषः, अयं, त्वम् अहम्' इति।
द्वितीयानि यथा— 'प्रथम—चरम—अल्प—कतिपय—पूर्व—पर—अपर—दक्षिण—उत्तर— स्व—अन्तर—सकल—कृत्स्नम्' इति।
प्रायेणाऽलिङ्गसंख्याशक्तीन्यव्ययानि। तानि षोढा—
'१अव्यय—२निपात— ३गत्युपसर्ग४ —कर्मप्रवचनीय५—विभक्तिप्रतिरूप६भेदात्। तेषु प्रायेण शक्तिसंख्याऽयोगात् स्वरादीन्यव्ययानि। यदाह (मभा. १.१.३८)
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ३४ ॥ इति