भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 1182 verses
द्रव्यं द्विधा १. सापेक्षम् २. अनपेक्षं च।

तयोराद्यं गुरुः, पिता, पुत्रः, भ्राता, जामाता, मित्रम्, माता, स्वसा, दुहिता, याता, ननान्दा, भार्या इति।

द्वितीयं यथा— चैत्रः, मैत्रः, इन्द्रः, उपेन्द्रः, चन्द्रः, सूर्यः, कालः, आकाशः, प्राची, प्रतीची, शची, लक्ष्मीरिति।

परिमाणं द्विधा १. नियतम् २. अनियतञ्च।

तयोराद्यं यथा— द्रोणः, खारी, पलम्, भारः, क्रोशः, योजनम्, निवर्त्तनम्, नल्वः (तल्पः), पणः, पुराणः, गणः, अक्षौहिणी—ति।

द्वितीयं यथा— संघः, पूगः, सार्थः, समाजः, वर्गः, श्रेणिः, कुटुम्बम्, परिषत्, पङ्क्तिः, यूथम्, वनम्, सेना इति।

२. गुणसंख्यावचनसर्वनामान्यनाविष्टलिङ्गानि। तेषु गुणो द्विधा १. अनुरञ्जकः २. अननुरञ्जकश्च।

तत्राऽनुरञ्जकयोगात् तदनुरक्तानि यथा श्‍वेता, स्वादु, शीघ्रं, मन्दं, दीर्घं, ह्रस्वम्, ऋजु, वक्रम्, मृदु, कठिनं, युवा, वृद्ध इति।

अननुरञ्जकयोगात् तद्‌विपरीतानि यथा— दक्षः, जिह्म—जड—प्राज्ञ—खल— साधु—स्निग्ध—क्रूर—शूर—भीरु—लघु—गुरु—रिति।

संख्या द्विधा १. लिङ्गवती २. अलिङ्गा चेति। तयोः —

Showing 151 to 160 of 1182 verses