'ओम् अग्निमीडे पुरोहितम्' (ऋवे. १.१.१),
'अथातो ब्रह्मजिज्ञासा' (ब्रसू. १.१.१),
स्वस्ति नो मिमीतामश्विना भगः' (ऋवे. ५.५१.११),
नह भोक्ष्यसे भोगन्, (काशिका ८.१.३१)
ऊर्ध्वं मुहूर्त्तात् कटं करोतु स्म भवान्, (काशिका ३.३.१६५)
शश्वदध्येष्यामहे, (सक. १.१.११८)
कच्चिदध्येष्यामहे। (सक. १.१.११८)
(१.२ अधिकारार्थाः) अथ, अथो, यावत्, तावत्, अनु, पुनः, पश्चाद्, भूय इत्यधिकारार्थाः। यथा—
अथ शब्दानुशासनम्, (मभा. १.१.१)।