त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम्।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजति क्रिया ॥ १२ ॥
यथा पन्थानं गच्छति गर्त्तमुत्तरतीति।
शारस्तु प्राप्य एव। यथा अजां नयति ग्रामम्, वहति भारमिति।
नन्वेवं ग्रामस्य प्राप्यता प्राप्नोति, नाजादेः।
कः पुनराह न प्राप्नोतीतिः किन्तु अकथितत्वेन तत्र क्रियाव्याप्यत्वाद् द्वितीयैव, न प्रत्ययान्तरम् 'गां दोग्धि पयः, पौरवं गां याचत' इति।
(बहिरङ्गम्) बहिरङ्गभेदेषु करणम् बाह्यमाभ्यन्तरं, बाह्याभ्यन्तरं च। तेषु—
१. बाह्यम् यथा— सुपां व्याख्यानः सौपः, ललाटस्य भूषणं ललाटिका।
२. आभ्यन्तरं यथा— मतस्य करणं मत्यम्, चतुर्णां पूरणश्चतुर्थः इति।