भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 221 to 230 of 1013 verses
ध्रुवमपायेऽपादानम् (१.४.२४) इति निर्दिष्टविषयम्। यथा—अग्निः पतत्यस्माद् आग्नेयो ग्रावा, नद्यः स्यन्दन्ते अस्मान्नादेयः शैल इति।

(उपात्तविषयम्)

भीत्रार्थादियोगोक्तमुपात्तविषयम्। यथा—कुक्षिं रक्षन्ति अस्मात् कौक्षेयकः कृपाणः, मुद्‌गा भवन्त्यस्मान्मौद्‌गीनं क्षेत्रम् इति। यथा—

अवधिमात्रार्थमपेक्षितक्रियम्। यथा कर्णस्य मूलं कर्णजाहम्, पक्षस्य मूलं पक्षति'—रिति

अधिकरणम्—वैषयिकम्, औपश्‍लेषिकम्, नैमित्तिकं च। तेषु

(वैषयिकम्)

विविधमनेकप्रकारं जाति—क्रिया गुण द्रव्यादिभिः सिनोतीति विषयो देशकालादिः। विषय एव वैषयिकः, यथा—गावः सन्त्यस्मिन् गोमान् देशः, पौषी पौर्णमास्यस्मिन् पौषो मास इति।

(औपश्‍लेषिकम्)

उपश्‍लेषोऽवष्टम्भः, तस्मै प्रभवति औपश्‍लेषिकम्। यथा— दण्डिनोऽस्यां सन्ति दण्डिमती शाला, विंशतिरिहाधिका विंशं शतम् इति।

(नैमित्तिकम्)

Showing 221 to 230 of 1013 verses