भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 241 to 250 of 1013 verses
प्रपद्यते कुमारी यं स कौमारो मतः पतिः ॥ १३ ॥

संप्रदानविशिष्टं तु कारकं नास्ति।

कर्त्ता कर्मविशिष्टो यथा— श्राद्धमनेनाऽद्य भुक्‍तं श्राद्धिकः। क्रियाविशेषणमिति— शब्दोपसंहारं च कर्मैव। तद्विशिष्टो यथा— प्रतिकूलं वर्त्तते प्रातिकूलिकम्, माशब्द, इत्याह माशब्दिक इति;

करणविशिष्टो यथा—अक्षैर्दीव्यति आक्षिकः।

अधिकरणविशिष्टो यथा—प्रावृषिकः प्रावृषि भवः प्रावृषेण्यः।

अपादानविशिष्टो यथा—पितुरागतं पित्र्यं धनम् इति।

कर्त्तृविशिष्टः कर्त्ता नास्ति।

करणं कर्मविशिष्टं यथा— ग्रीवायां भूषणं ग्रैवेयं रुक्मदाम। एवं

सम्प्रदानमपि यथा— मांसमेभ्यो नियुक्तं दीयते मांसिकाः पितरः।

अपादानं कर्त्तृविशिष्टं यथा— ब्रीह्‌यो भवन्त्यस्माद् ब्रैहेयं क्षेत्रम्। एवम्

Showing 241 to 250 of 1013 verses