अधिकरणमपि यथा— शर्कराः सन्त्यस्मिन् शर्करिलो देशः। तदेव
कर्मविशिष्टं यथा— पदमस्मिन् दृश्यं पद्यः कर्दमः।
करणविशिष्टमपि यथा— दण्डः प्रहरणमस्यां दण्डा क्रीडा इति।
करणादयोऽस्य विशिष्टा न विद्यन्ते ॥
कर्मकर्त्रोरेव अकारकसंबन्धिनिपातैर्विशेषणयोगः। स
कर्मणोऽकारकेण यथा— मासाय भूतो मासिकः, संवत्सरमधीष्टः सांवत्सरिक इति। कर्त्तुर्यथा— संतापाय प्रभवति सांतापिकः, वर्षं भूतो भावी वा वार्षिक इति।
कर्मणः सम्बन्धिनो यथा— वाक्यपदे अधिकृत्य कृतो ग्रन्थो वाक्यपदीयः, कलापिषु उदि्भद्यमानकलापेषु देयमृणं कालापकम् इति।
कर्तुर्यथा तित्तिरिणा प्रोक्तं विदन्ति अधीयते वा तैत्तिरीयाः, पूर्वं कृतं भुक्तं पीतं वा एभिः पूर्विणः इति।
कर्मणो निपातेन यथा— यथाकथाचं क्रियते याथाकथ्यमिदम् (काशिका ५.१.९८), बहिर्दृश्यते बाह्यम् इति।
कर्त्तुर्यथा आराद् भव आरातीयः, साक्षाद् द्रष्टा साक्षी इति।