भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 251 to 260 of 689 verses
आख्यातास्तर्हि सर्वकारकव्यापाराः किमिति नावगम्यन्ते? प्राधान्यात्कर्तृकर्मणोरेव लकारोत्पत्तेः तद्व्याव्यापार एवाख्यातात्प्रतीयते।

किं पुनस्सर्वेषां कारकाणामेका प्रवृत्तिः? आहोस्वित् प्रतिकारकं भिन्नाः प्रवृत्तयः क्रियेति। न तावदाद्यः पक्षः, सर्वेषामेकस्याः प्रवृत्तेरसंभवात्। न हि यैव काष्ठानां प्रवृत्तिस्सैव देवदत्तस्य स्थाल्यादेश्‍च संभवति, तस्मात्प्रतिकारकं भिन्नाः प्रवृत्तयो धातुना युगपदभिधीयमानाः क्रियेत्युच्यन्ते।

अथवा पुनरस्त्वेकैका सर्वकारकाणां प्रवृत्तिः क्रिया। तथा हि सर्वैरेव कारकैरेका प्रवृत्तिरुपजन्यते सर्वाण्येव हि फलजननाय प्रवर्तन्ते। किञ्चित्तु केनचिद्रूपेण जनयतीत्यवान्तर— भेदात्करणादिव्यपदेशः, एकश्‍चानेकत्र वृत्तिर्जातिवदुपपद्यते। विशेषाद्‍वास्याः फलजननरूपत्वं, न पुनरधिश्रणादिरूपतेति।

(३. उपस्काररूपं पदम्)

विशेषणादिरूपं निपातादिरूपं, आख्यातादिरूपं, संबोधनादिरूपं, हेत्वादिरूपं चेत्युपस्काररूपा। एते चाग्रत उपस्कारार्थप्रस्तावे प्रपञ्चतो वर्णयिष्यन्त इति नेह प्रतन्यन्ते (द्र. पृ. २६५)। संबन्धाविच्छेदार्थं तु लेशत उदाह्रियन्ते। तत्र —

विशेषणादयः क्रियाविशेषणं, कारकविशेषणं, उपसर्गश्‍च; यथा— साधु पचति, भीष्ममुदारं दर्शनीयं कटं करोति, एहि मन्ये रथेन यास्यतीति।

निपाताः कर्मप्रवचनीयाः अव्ययानि च, यथा— अहं च त्वं च वृत्रहन्, असांप्रतं जेतुमित्यादयः।

आख्यातानि कृतस्तद्धिताश्‍च, यथा— स्मरसि देवदत्त कश्‍मीरेषु वत्स्यामः, रैपोषं पुष्यति, ब्राह्मणवद् ब्रवीति।

सम्बोधनादयः आमन्त्रणमवधिभावो लिङ्गं च, यथा— हे देवदत्त, भुक्ता व्रजतीति, स इति। संबन्धादयश्‍शेष इति, उपपदम्, सहार्थश्‍च, यथा— राज्ञः, पुरुषः, कुशलं देवदत्तायेति, पुत्रेण सहायात इति।

हेत्वादयो हेतुर्लक्षणं तादर्थ्यं च, यथा— विद्यया यशः, कमण्डलुना छात्रः, यूपाय दार्विति।

Showing 251 to 260 of 689 verses