तेषां चोत्पत्तिप्रभृति आविनाशात् समृद्धिमाचक्षाणः परानपि तथैव प्रत्याययति। तथा हि वक्तारो भवन्ति 'गच्छ हन्यते कंसः, किं गतेन हतः कंस' इति। एवं रात्रिं विवासयतीत्यादावपि तथा प्रत्यायनमवगन्तव्यम्। अयं च सूत्रानारम्भपक्षे न्यायः। सूत्रारम्भपक्षे तु आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापतिः प्रकृतिवच्च कारकम् इत्युदाहृतं पुरस्तात्।
अथायं णिजर्थो धात्वर्थत्वेनावच्छिद्यमानः किं साक्षादवच्छिद्यते? एवं भवितुमर्हति; न ह्यन्यदिहोपलभ्यते। तदनुपपन्नम्। क्रिययोः साध्यत्वेन स्वसाधनापेक्षया परस्परेण सम्बन्धः। अस्तु तर्हि कर्तुर्व्यवधानेन। अयुक्तं चैतत्। धात्वर्थो हि कर्तृव्यापाररूपः, सोऽनुपलभ्यमानमपि कर्तारमाक्षिप्य तद्द्वारेण प्रत्ययार्थं विशेषयति।
न चैवं सति प्रेरणानर्थक्यं, यतो विच्छेदमाशङ्कमानः क्रियायां प्रवृत्तमपि प्रेरयति। यत्राप्यप्रवृत्त एव प्रवर्त्यते तत्रापि योग्यत्वाद्वुद्धिस्थं क्रियासम्बन्धं गृहीत्वा प्रयुङ्क्ते। बुद्धिनिबन्धनोऽपि क्रियाकर्त्रोस्सम्बन्ध उपपद्यते। तदाप्याख्यानात् कृतस्तदाचष्ट इत्याद्युपसंख्यानं 'न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्' इति बुद्धिनिबन्धनत्वेनैव प्रत्याख्यातम्। तदा च बुद्धिकंसो बुद्धिवासुदेवेन हन्यत इत्येवंभूतबुद्धिविषयं प्रयोजकव्यापारमाश्रित्य पुनर्बौद्ध एव प्रयोजकव्यापारोऽङ्गीकृतः। अथोऽर्थाक्षिप्तकर्तृसङ्गताया धात्वभिहितायाः क्रियायाः प्रत्ययार्थत्वेन प्रेरणादिना सम्बन्ध इति। अत एव प्रवृत्तोऽपि प्रेष्यमाणे लोडादिप्रत्ययोत्पत्तेः कर्तृत्वस्यापायात्। ननु कथमप्रवृत्तबाह्ययोगः कर्तृत्वमुपेयात्। प्रैषसाध्यं च कर्तृत्वं कथं नाम ततः प्रागेव भवेत् ? उच्यते; नेदं बाह्यप्रयोगप्रवृत्त्यधीनं कर्तृत्वमभिधीयते। क्रियायां तु सम्बध्यमानत्वेन विवक्षितायां तत्साध्यतानान्तरीयकः सामर्थ्यप्रापितसन्निधानः कर्ता स्थित एव प्रयोजकव्यापारेण बाह्यप्रयोगसिद्ध्यर्थमेव विषयीक्रियते। अन्यथा प्रयोजकव्यापारापेक्षकर्तृत्वे प्रयोजकोत्तरकालमेवास्य कर्तृत्वं भवेदिति न संप्रति कर्तृत्वाभावे तन्निबन्धनो लोडादिरुपपद्यते। तस्मात्पचतीत्यादिना यः पचति स पाकं प्रति प्रवर्तयत्विति कथितं भवति। क्रियासामर्थ्यादेनं निर्ज्ञातं कर्तारं प्रैष्यतया— भिधेयभावेन लकारोऽभिनिविशते। तथा हि— सोऽयं पाकादिधात्वर्थसामर्थ्यादवगतः कर्ता साधनत्वार्थस्य बाह्यप्रयोगसंपत्त्यर्थप्रेषणादिव्यापारविषयीकृतः प्रत्ययेनाभिधीयत इत्यामनन्ति।
भवतु नाम क्रियाप्रापितसन्निधानः कर्ता। स तु नियत एव पुरुषः कथं ज्ञायते, येनैवमुच्यते यस्त्वं पचसि स पाकं प्रवर्तयेति। अत एव भाष्ये सक्रियस्य कर्तुः प्रयोगे णिचमभिधाय द्रव्यमात्रस्य प्रयोगे लोट उत्पत्तिरभिहिता—पृच्छतु मा भवान्, अनुयुङ्क्तां मा भवान् इति। उच्यते द्रव्यमात्रमपि प्रेष्यमाणं क्रियासाधनयोग्यमेव प्रेष्यते, न काष्ठकुड्यादि। नन्वेवं णिचो लोटश्च विषयसङ्कर प्राप्नोति? नास्ति सङ्करः; यस्यावगतमसकृत् प्रमाणान्तरेण क्रियाकर्तृत्वमसावेव सम्भावितक्रियो णिज्विषयः। अदृष्टक्रियासामर्थ्यं तु योग्यमेव द्रव्यमात्रं लोड्विषय इति। तेन पचेत्ययमर्थः यस्त्वं पचसि पाकार्हः पाके शक्तः स त्वं प्रवर्तय पाकमिति। एवं च क्रियाकर्तृत्वेन योग्यतया ज्ञायमानस्य प्रयोगे प्रवर्त्यमानत्वात् कर्तुरेवाधिकार इत्युक्तं भवति। किं च 'विद्वच्छूराभिजातकर्तृके राज्ये भवानधिकृत' इत्यादिवचनभङ्गिभिरयमेवार्थस्समर्थ्यते।
यदि तर्हि न कर्ताधिक्रियते नायं मतिमान् विशिष्टमेव पुरुषमेवंप्रकारेऽ— धिकारेऽनुरुन्धीत यमेव कञ्चित्पुरुषमुपाददीत।
अथवा एते लोडादिविषयाः प्रैषादिविषयाः। ते कस्य धर्मभूताः, तत्रैव ते वर्णयन्ति 'प्रयोक्तुः (इति)'; प्रयोक्ता हि प्रेषणादिभिरभिमतसिद्धयेऽभिलाषात् पुरुषं प्रवर्तयति; स च क्वचित् प्रेषयन्, क्वचिदध्येषयन्, क्वचिदामन्त्रयमाण इति शब्दस्यैते व्यापारा इत्यपरे।
प्रेषणा हि सर्वविध्यादिसाधारणरूपा। सा च शब्दव्यापारः, निमन्त्रणादयस्तु प्रमाणादिनिबन्धनास्तद्विशेषाः। तथा हि — इदं निमन्त्रणं, इयमनुज्ञा, अयं प्राप्तकाल इति प्रकरणादेरवगम्यते।
अन्यन्मतं प्रयोज्यव्यापारविशेषाः; ते चासंविदिताः; स तु पुरुषो लिङादिप्रयोगाद् भोजनादिक्रियासु निमन्त्रणाद्यवस्थान्तरमात्मानं मन्यते निमन्त्रितोऽहमध्येषितोऽहमिति।
अन्ये त्वाहुः — विधिरेक एवार्थः प्रत्ययस्य। स च यजेतेत्यादेर्यथारूपोऽवगम्यते तथारूप एव। कटं कुरु; इह करोत्यर्थात्मके विधिवद्धात्वर्थानुयायिनीति कारकाणामभि— संबन्धः। यतः करोत्यर्थात्मकव्यापारेण कारकाणां विशेष उपजायमान उपलभ्यते; कुर्वन् हि कारको भवति।