भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 689 verses
(वाप. ३.७.५)

तेषां चोत्पत्तिप्रभृति आविनाशात् समृद्धिमाचक्षाणः परानपि तथैव प्रत्याययति। तथा हि वक्तारो भवन्ति 'गच्छ हन्यते कंसः, किं गतेन हतः कंस' इति। एवं रात्रिं विवासयतीत्यादावपि तथा प्रत्यायनमवगन्तव्यम्। अयं च सूत्रानारम्भपक्षे न्यायः। सूत्रारम्भपक्षे तु आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापतिः प्रकृतिवच्च कारकम् इत्युदाहृतं पुरस्तात्।

अथायं णिजर्थो धात्वर्थत्वेनावच्छिद्यमानः किं साक्षादवच्छिद्यते? एवं भवितुमर्हति; न ह्यन्यदिहोपलभ्यते। तदनुपपन्नम्। क्रिययोः साध्यत्वेन स्वसाधनापेक्षया परस्परेण सम्बन्धः। अस्तु तर्हि कर्तुर्व्यवधानेन। अयुक्तं चैतत्। धात्वर्थो हि कर्तृव्यापाररूपः, सोऽनुपलभ्यमानमपि कर्तारमाक्षिप्य तद्‍द्वारेण प्रत्ययार्थं विशेषयति।

न चैवं सति प्रेरणानर्थक्यं, यतो विच्छेदमाशङ्कमानः क्रियायां प्रवृत्तमपि प्रेरयति। यत्राप्यप्रवृत्त एव प्रवर्त्यते तत्रापि योग्यत्वाद्व‍ुद्धिस्थं क्रियासम्बन्धं गृहीत्वा प्रयुङ्क्ते। बुद्धिनिबन्धनोऽपि क्रियाकर्त्रोस्सम्बन्ध उपपद्यते। तदाप्याख्यानात् कृतस्तदाचष्ट इत्याद्युपसंख्यानं 'न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्' इति बुद्धिनिबन्धनत्वेनैव प्रत्याख्यातम्। तदा च बुद्धिकंसो बुद्धिवासुदेवेन हन्यत इत्येवंभूतबुद्धिविषयं प्रयोजकव्यापारमाश्रित्य पुनर्बौद्ध एव प्रयोजकव्यापारोऽङ्गीकृतः। अथोऽर्थाक्षिप्तकर्तृसङ्गताया धात्वभिहितायाः क्रियायाः प्रत्ययार्थत्वेन प्रेरणादिना सम्बन्ध इति। अत एव प्रवृत्तोऽपि प्रेष्यमाणे लोडादिप्रत्ययोत्पत्तेः कर्तृत्वस्यापायात्। ननु कथमप्रवृत्तबाह्ययोगः कर्तृत्वमुपेयात्। प्रैषसाध्यं च कर्तृत्वं कथं नाम ततः प्रागेव भवेत् ? उच्यते; नेदं बाह्यप्रयोगप्रवृत्त्यधीनं कर्तृत्वमभिधीयते। क्रियायां तु सम्बध्यमानत्वेन विवक्षितायां तत्साध्यतानान्तरीयकः सामर्थ्यप्रापितसन्निधानः कर्ता स्थित एव प्रयोजकव्यापारेण बाह्यप्रयोगसिद्ध्यर्थमेव विषयीक्रियते। अन्यथा प्रयोजकव्यापारापेक्षकर्तृत्वे प्रयोजकोत्तरकालमेवास्य कर्तृत्वं भवेदिति न संप्रति कर्तृत्वाभावे तन्निबन्धनो लोडादिरुपपद्यते। तस्मात्पचतीत्यादिना यः पचति स पाकं प्रति प्रवर्तयत्विति कथितं भवति। क्रियासामर्थ्यादेनं निर्ज्ञातं कर्तारं प्रैष्यतया— भिधेयभावेन लकारोऽभिनिविशते। तथा हि— सोऽयं पाकादिधात्वर्थसामर्थ्यादवगतः कर्ता साधनत्वार्थस्य बाह्यप्रयोगसंपत्त्यर्थप्रेषणादिव्यापारविषयीकृतः प्रत्ययेनाभिधीयत इत्यामनन्ति।

भवतु नाम क्रियाप्रापितसन्निधानः कर्ता। स तु नियत एव पुरुषः कथं ज्ञायते, येनैवमुच्यते यस्त्वं पचसि स पाकं प्रवर्तयेति। अत एव भाष्ये सक्रियस्य कर्तुः प्रयोगे णिचमभिधाय द्रव्यमात्रस्य प्रयोगे लोट उत्पत्तिरभिहिता—पृच्छतु मा भवान्, अनुयुङ्क्तां मा भवान् इति। उच्यते द्रव्यमात्रमपि प्रेष्यमाणं क्रियासाधनयोग्यमेव प्रेष्यते, न काष्ठकुड्यादि। नन्वेवं णिचो लोटश्‍च विषयसङ्कर प्राप्‍नोति? नास्ति सङ्करः; यस्यावगतमसकृत् प्रमाणान्तरेण क्रियाकर्तृत्वमसावेव सम्भावितक्रियो णिज्विषयः। अदृष्टक्रियासामर्थ्यं तु योग्यमेव द्रव्यमात्रं लोड्‍‌विषय इति। तेन पचेत्ययमर्थः यस्त्वं पचसि पाकार्हः पाके शक्तः स त्वं प्रवर्तय पाकमिति। एवं च क्रियाकर्तृत्वेन योग्यतया ज्ञायमानस्य प्रयोगे प्रवर्त्यमानत्वात् कर्तुरेवाधिकार इत्युक्तं भवति। किं च 'विद्वच्छूराभिजातकर्तृके राज्ये भवानधिकृत' इत्यादिवचनभङ्गिभिरयमेवार्थस्समर्थ्यते।

यदि तर्हि न कर्ताधिक्रियते नायं मतिमान् विशिष्टमेव पुरुषमेवंप्रकारेऽ— धिकारेऽनुरुन्धीत यमेव कञ्चित्पुरुषमुपाददीत।

अथवा एते लोडादिविषयाः प्रैषादिविषयाः। ते कस्य धर्मभूताः, तत्रैव ते वर्णयन्ति 'प्रयोक्‍तुः (इति)'; प्रयोक्ता हि प्रेषणादिभिरभिमतसिद्धयेऽभिलाषात् पुरुषं प्रवर्तयति; स च क्‍वचित् प्रेषयन्, क्‍वचिदध्येषयन्, क्‍वचिदामन्त्रयमाण इति शब्दस्यैते व्यापारा इत्यपरे।

प्रेषणा हि सर्वविध्यादिसाधारणरूपा। सा च शब्दव्यापारः, निमन्त्रणादयस्तु प्रमाणादिनिबन्धनास्तद्विशेषाः। तथा हि — इदं निमन्त्रणं, इयमनुज्ञा, अयं प्राप्तकाल इति प्रकरणादेरवगम्यते।

अन्यन्मतं प्रयोज्यव्यापारविशेषाः; ते चासंविदिताः; स तु पुरुषो लिङादिप्रयोगाद् भोजनादिक्रियासु निमन्त्रणाद्यवस्थान्तरमात्मानं मन्यते निमन्त्रितोऽहमध्येषितोऽहमिति।

अन्ये त्वाहुः — विधिरेक एवार्थः प्रत्ययस्य। स च यजेतेत्यादेर्यथारूपोऽवगम्यते तथारूप एव। कटं कुरु; इह करोत्यर्थात्मके विधिवद्धात्वर्थानुयायिनीति कारकाणामभि— संबन्धः। यतः करोत्यर्थात्मकव्यापारेण कारकाणां विशेष उपजायमान उपलभ्यते; कुर्वन् हि कारको भवति।

Showing 231 to 240 of 689 verses