श्रूयताम् इह तु क्रियाः काश्चित्क्रियान्तरैः कैश्चिद् बुद्ध्यैव परिमीयन्ते। यथा अर्कादीनां गतयः, यथा च गोदोहादयः, यथाऽस्मदादिव्यापाराः, यथा पुरुषायुषादयस्त— त्रावधृतपरिमाणाभिरितराः परिच्छिद्यन्ते; यथा दिविसं गच्छति, वर्षशतं जीव, ओदनपाकमास्ते, गोदाहं स्वपिति; तत्र परिच्छेदकालव्यवहारं वर्तयन्ति; यथा 'सवितुरुदयादिरस्तमयपर्यन्तः क्रियाप्रबन्धो दिवसः, स एवास्तमयादिः पुनरुदयावसानो निशा, सर्वर्क्षाणां सकृत्परिवृत्ति— रहोरात्रः, कालभिरिन्दोराप्यायनं परिक्षयो वा पक्षः, चन्द्रस्य सकलनक्षत्रातिक्रमो मासः, सूर्याचन्द्रमसोर्गति विभागादेकाहोरात्रक्षयः ऋतुः, रवेर्दक्षिणत उत्तरतो वा गमनमयनम्, बृहस्पतेरेकाराश्य तिक्रमस्संवत्सर इति। तेन चोक्तानुक्तक्रियया कालोऽवच्छिद्यते। यथा दिवा दिवसः, दिवसो निशा चाहोरात्रः, पञ्चदशाहोरात्रः पक्षः, पक्षद्वयं मासः, मासद्वयमृतुः, ऋतुत्रयमयनं, अयनद्वयं संवत्सरः, पञ्च संवत्सरा युगम्, युगानि द्वादश कल्पः, कल्पशतानि द्वादश महाकल्पः, महाकल्पषष्टिश्चतुर्युगम्, चतुर्युगानि द्विसप्ततिर्मन्वन्तरम्, मन्वन्तराणि चतुर्दश ब्रह्मदिवसः, तावत्येव तन्निशा प्रलयः, तन्मानेन वर्षशतान्ते ब्रह्मणोऽपवर्गो महाप्रलयः। यथा वा सूर्यस्य भगणभोगो वर्षं, राशिभोगो मासः, मासत्रिंशांशो दिनं, दिनषष्ट्यंशः कला, कलाषष्ट्यंशो विकला, विकलाषष्ट्यंशः तत्परेति। तत्र 'यथा रजताद्यधिकरणगौरवमवधृतपरिमाणद्रव्यान्तरसंबन्धसमुत्कीर्णरेखस्तुलादण्डः रेखासूत्रावस्थानः पलशः कर्षशो भागशो परिच्छिनत्ति, तथा कलादिव्यवस्थानवशेन भागशः कालान्तरं परिच्छिनत्ति। परिमाणं परिमिमीतेक्रियानियमैः कालावच्छेदनियमः, यथा परमाणोः स्वावष्टब्धप्रदेश क्रमलक्षणः कालः क्षणः, पक्ष्मसंपातो निमेषः, इयत्क्षणा इयन्निमेषा वा नाडिका, द्विनाडिको मुहूर्तः, पादोनचतुर्मुहूर्तो यामः, यामाष्टकमहोरात्र इति। बुद्ध्यवच्छेदेन वा कालपरिच्छेदः, यथा अर्कस्य उदयाविदूरता प्रत्यूषः, (विराट्)पुरुषभ्रूप्रदेशगता दीर्घता पूर्वाह्णः, तपमा मध्याह्नः, परावृत्य दर्शनमपराह्णः, अस्तमयासन्नताभिसन्धिः सन्ध्येति। रात्रेः प्रारम्भो निशामुखम्, निशामुखाद् रात्रेस्तुर्यांशः प्रदोषः, अर्धरात्रमुभयतो निशाष्टमो निशीथः, निशीथात् तावन्मात्रमपररात्रः, परतो निशावशेषः प्रभावमिति क्रियाविशेषैः कालविशेषावगमः। तथा हि—
शयाने शोरते रात्रौ दिवा जाग्रति जाग्रति।
जगत्प्रदीपे पद्मानि कलत्राणीव भर्तरि॥ ३५॥
रतान्तकालकान्तस्त्रीदृग्विलासैकसाक्षिणी।
निशा नीलोत्पलानीके निमीलति निमीलति॥ ३६॥
चञ्च्वग्रचुम्बिताऽऽताम्रचूताङ्कुरकदम्बकैः।
कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः॥ ३७॥
दिवाकरकरालातपतानिर्दग्धवीरुधः।
मार्गास्समल्लिकामोदा भाविग्रीष्मस्य शंसिनः॥ ३८॥
शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः।