शक्तिरेकाधिकरणे स्त्रोतोवदपकर्षति॥ ३३॥
अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथञ्चन॥ ३४॥
सा तु यथा अस्ति भवति करोतीत्याद्यच्छेदे भेदादभिन्नापि भिन्नेव प्रकाशते, तथा क्रमरूपोपादानान्नित्यमेव कालसंबन्धोपाधिभूत—भूत—भविष्यदादिव्यपदेशमासादयति॥
क्रियैव, क्रियान्तरावधृतपरिमाणव्यवच्छिन्ना वा क्रियापरिच्छेदहेतुः कालः।
कथं पुनः क्रिययैव क्रियापरिच्छित्ति ?