शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते।
वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे! नमः ॥ ४६ ॥
आरात्रि विवासमाचष्टे रात्रीर्विवासयति, माहिष्मत्यां सूर्यमुद्गमयति, इत्यादिर्दृष्ट— प्रयोज्यक्रियः। स यथा—(माघ. ११.५)
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ् जीवितेशोऽवकाशम्।
रतिपरिचयनश्यन्नैद्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरीं किं करोतु ॥ ४७ ॥
कथं पुनः कंसं घातयति कथकः, बलिं बन्धयति गाथक इत्यादौ प्रयोजकव्यापारेण णिजुत्पत्तिः? उच्यते—
शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ ४८ ॥