भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 241 to 250 of 689 verses
अन्ये त्वाहुः — योऽयं पाकादिको विशेष इतरेतरवैलक्षण्येनोपलभ्यमानः प्रतिनियतफलजनकः, यत्रैव फलसाधकत्वात् करणानि प्रवर्तन्ते तस्यैव तु व्यापारात्मकत्वात् क्रियारूपतापि संपन्नैवेति।

अपरमतं — तन्न विवेक्‍तुं शक्यम् इह कारकाणि व्याप्रियन्ते, न व्याप्रियन्त इति, उभयात्मके वस्तुनि विशिष्टोपाधिरूपस्य अनिर्धारितत्वादेकत्रापि प्रवृत्तिमुपयत् कारकमितरत्रापि प्रवृत्तमिवोपलभ्यते।

अथापरे ब्रुवते उभयात्मकमेव हि क्रियारूपं वस्तु कारकैस्संपद्यते। अत एव 'कारकाणां प्रवृत्तिविशेषः क्रिया' इत्येतद्भावनापक्षेऽपि सङ्गच्छते, न चास्माभिस्सकलधात्वर्थानुयायि— करोत्यर्थरूपा भावना अङ्गीक्रियते, यदित्थमध्यगीषत कृभ्वस्तयः क्रियासामान्यवचनाः, क्रियाविशेषवचनाः पच्यादय इति। किंतु प्रत्ययवाच्यत्वमस्या अनुकृष्यते।

ननु च भावनापक्षें कारकाणामिति बहुवचनानुपपत्तिः, कर्तुरेव हि व्यापारो भावना, न कारकाणामुच्यते। कर्तैव कारकशब्देनोक्तः, न पुनरितरकरणादि। कर्तॄणां तु क्रियाभेदेन बहुवचनम्।

कथं पुनरिदं ज्ञायते ? यतो भुजिक्रियामूरीकृत्येदमभिधत्ते। अन्यथा कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा मांसौदन इति कर्तैव शुष्कौदने मन्दप्रस्थानेन प्रवर्तते, मांसौदने संरम्भेणातः कर्तुर्मन्दतासंरम्भप्रदर्शनं ज्ञायते। कर्तैव परिग्रहीता, यस्य बुद्ध्यनुषङ्गात् तथाप्रवृत्तिः।

ननु च शुष्कौदनमांसौदनयोः करणाधिकरणादीनामपि तद्भेदनिमित्तं बहुवचनं भविष्यति।

नैवम्; विद्यमानमपि कारकान्तरं कांस्यपात्रादिशुष्कमांसौदनयोर्मन्दनया संरम्भेण वा प्रवर्तते। यदापि सकलकारकव्यापारः क्रियेति पक्षस्तदापि प्रधानत्वात् कर्तैव कारकशब्देनोच्यते, तस्य च सर्वक्रियाविशेषविषयत्वेनानपायात् प्रयोगप्रवृत्तिहेतुत्वाच्च। कर्म पुनः यद्यपि तदर्थत्वात् प्रवृत्तेः प्रधानं तथापि तस्यासर्वविषयत्वान्न कारकाणामिति बहुवचनेन सङ्ग्रहः। यद्येवं कर्तृशब्द एव कस्मान्न कृतः? कर्मणि लकाराणां तस्य व्युदासो मा भूत्। तेन यत्र संभवति कर्म तत्राङ्गीकृतमेव तु तदपेक्षया बहुवचनम्।

ननु च संरम्भादिप्रदर्शनादचेतनव्यापारस्य क्रियात्वं न प्राप्‍नोति।

नैवम्; संरम्भादेः कर्तृविलभणत्वात्। अतः कर्तृव्यापारः क्रियेति सिद्धम्। नन्वेवं सति भाष्यं न संगच्छते 'कः पचेः प्रधानार्थः, याऽसौ तण्डुलानां विक्लित्तिः' इति। आर्थं प्राधान्यमाश्रित्य तद्भाष्यमित्यविरोधः। यत्तदर्थः 'प्रेषणं, अध्येषणं वा स सर्वः पच्यर्थ' इति। एवं च पचतीत्याख्यातस्य विक्लित्त्युपसर्जनं विक्लेदनमर्थो भवति।

अन्ये तु कारकाणामिति बहुवचनं सर्वकारकव्यापारत्वेन व्याचक्षते, यस्मात्सर्व— कारकव्यापाराभिधायित्वं धातूनां दृश्यते। तथा च देवदत्तस्य काष्ठैस्स्थाल्यामोदनस्य च पाचकः इत्यादौ सर्वाण्येव कारकाणि धात्वर्थस्य विशेषणम्; नात्र कस्यचिदुणभावः प्रधानभावो वा अवगम्यते।

Showing 241 to 250 of 689 verses