गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्।
आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्यः ॥ ४४ ॥
सुण्णम्मि गिरिग्गामे वणमहिस—विसाण—भग्ग—वइ—वेढे।
गहवइ—धूआ दंसण—मणोरहा/हरा मं पसाएई ॥ ४५ ॥
(शून्ये गिरिग्रामे वनमहिषविषाणभग्नवृतिवेष्टे।
गृहपतिदुहिता दर्शनमनोरथा/हरा मां प्रसादयति॥)
(३) प्रत्यायको द्विधा— अदृष्टप्रयोज्यक्रियो, दृष्टप्रयोज्यक्रियश्च। तयोः कंसं घातयति, पुष्येण चन्द्रं योजयतीत्यादिरदृष्टप्रयोज्यक्रियः।