भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 1013 verses
३. बाह्याभ्यन्तरं यथा— समिध आधीयन्तेऽनेन सामिधेन्यो मन्त्रः, स एव हृदयस्य बन्धनो हृद्य प्रति।

संप्रदानम् — ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।

(ददातिकर्माप्यम्)

संप्रदीयते भोजनादिकमस्मै इत्यन्वर्थसंज्ञकं ददातिकर्माप्यम्। यथा— अग्रभोजनं नियुक्तमस्मै दीयते आग्रभोजनिकः, पञ्चास्मै वृद्धिर्वा, आयो वा, लाभो वा, शुल्कं वा, उपदा वा दीयन्ते पञ्चकः पुरुष इति।

(कर्ममात्राप्यम्)

कर्मणा यमभिप्रैति स संप्रदानम् (१.४.३३) इति पारिभाषिकसंज्ञकं कर्ममात्राप्यम्। यथा—'राष्ट्रमस्मै निर्दिश्यते राष्ट्रियो राजन्यः, कलिं कुर्वन्त्यस्मै कालेयं गन्धद्रव्यम् इति।

(क्रियाप्यम्)

कर्मशब्देन क्रियाया अप्यभिधानात् क्रिययापि यमभिप्रैति स संप्रदानमिति क्रियाऽऽप्यम्। यथा—'अलं कर्मास्मै निर्दिश्यते अलङ्कर्मीणः अन्यूनः, न षडक्षाणि अस्मै भवन्ति अषडक्षीणो मन्त्र' इति।

अपादानम्— निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियं च। तेषु

(निर्दिष्टविषयम्)

Showing 211 to 220 of 1013 verses