निमित्तमेव नैमित्तिकम्। यथा—पूर्णो मासोऽस्यां पौर्णमासी रात्रिः, परिखाऽत्र स्यात् परिखेयो देशः इति।
कारकं चान्तरङ्गबहिरङ्गभेदाद् द्विरूपमपि प्रकृत्युपाधेः
१. कारकविशिष्टम्, २. अकारकविशिष्टम्, ३. संबन्धविशिष्टम्, ४. निपातविशिष्टञ्चेति चतुर्धा निर्धार्यते। तेषु —
कर्म कर्मविशिष्टं यथा— अयानयं नेयः अयानयीनः शारः,
करणविशिष्टं यथा— चक्षुषा गृह्यते चाक्षुषं रूपम्,
अधिकरणविशिष्टं यथा— स्त्रुघ्ने कृतो वा लब्धो वा क्रीतो वा स्त्रौघ्नः,
अपादानविशिष्टं यथा— तन्त्रादचिरापहृतस्तन्त्रकः पटः इति।
कर्तृविशिष्टं यथा— अश्वैरुह्यत आश्वो रथः। कर्तृविशेषणमपि कर्त्तैव चतुर्भिरुह्यते चातुरं शकटम्। अपि च— (काशिका ४.२.१३)
कौमारी सा भवेद् भार्या यां कुमारः प्रपत्स्यते।