अथ 'कृतपूर्वी कटम्' इति कथम्? न ह्यनेनाऽपि प्रयोगेण भवितव्यम्।
द्वितीयया तावन्नोत्पत्तव्यम्।
प्रत्ययेनापि नोत्पत्तव्यम्।
असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति।
उच्यते— नायं कर्मणि क्तः, अपितु भावे। भावसाधनेन च कृतशब्देन योच्यते क्रिया तयेप्सितं कटादि कर्म अनभिहितमेवेति।
तत्र यथा 'ग्रामं गतो देवदत्त' इति धातु—निष्ठाभ्यामभिधीयमानयोः क्रियाकर्त्रोर्ग्रामादिकर्मभिरभिसम्बन्धो भवति, एवं कृतपूर्वीति कृतशब्देन तद्धितेन वाऽभिधीयमानयोः क्रियाकर्त्रो कटादिकर्मभिरभिसम्बन्धो भवतिः तथाहि— कृतं पूर्वमनेनेत्यस्मिन्नर्थे कृतपूर्वीशब्दस्तद्धितान्तो वर्तते; तेन च पूर्व कृतवानित्ययमर्थः संपद्यते। एवं च सापेक्षत्वाभावान्नास्त्यसामर्थ्यम्। अस्ति च करोतिवाच्यक्रियापेक्षं कटस्य कर्मत्वमिति तद्धितद्वितीयोत्पत्त्योर्नानुपपत्तिः। तदुक्तम्— (वाप.वृत्ति—६७) इति।