भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 261 to 270 of 1013 verses
ननु, क्रिययाऽपि कर्मणः कर्त्तुर्वा विशेषणयोगः संभवति। तद् यथा— पाकेन निर्वृत्तं पाकिमम्; अपमित्या (निर्वृत्तम्) आपमित्यकम्, याचितेन (निर्वृ्त्तं) याचितकम् इति; यथा च सुस्‍नातं पृच्छति (४.४.१. वाप.३) सौस्‍नातिकः प्रभूतमाह प्राभूतिकः, कृतं(तः) पूर्वमनेन कटः कृतपूर्वी कटम् इति (५.२.८७ काशिका)।

उच्यते क्रियाऽपि प्राकृतं कर्मैव। अतस्तद्विशिष्टयोरपि कर्मकर्त्रोः कर्मविशिष्टत्वमेव भवति।

ननु च 'निर्वृत्तमि' त्येतस्य कथं कर्मता?

इदं ह्यनुद्रिक्ते कर्मांशे कर्त्तरि वा प्रयुज्यमानं दृश्यते।

नैवम्

अन्तर्भूत—ण्यर्थत्वेनास्य सकर्मकत्वमपि मन्यन्ते। तथा च कात्यायनः —

(वररुचिः)

उत्तारणाय जगतः प्रपितामहेन

तस्मात् पदात् त्वमपि रज्जुरिव प्रवृत्ता ॥ १४ ॥

मल्लनागोऽ(कामसूत्रकृद् वात्स्यायनोऽ) प्याह 'नागरकवृत्त्या वर्त्तेते —ति (कामसू. १.४.१)।

Showing 261 to 270 of 1013 verses