ननु, क्रिययाऽपि कर्मणः कर्त्तुर्वा विशेषणयोगः संभवति। तद् यथा— पाकेन निर्वृत्तं पाकिमम्; अपमित्या (निर्वृत्तम्) आपमित्यकम्, याचितेन (निर्वृ्त्तं) याचितकम् इति; यथा च सुस्नातं पृच्छति (४.४.१. वाप.३) सौस्नातिकः प्रभूतमाह प्राभूतिकः, कृतं(तः) पूर्वमनेन कटः कृतपूर्वी कटम् इति (५.२.८७ काशिका)।
उच्यते क्रियाऽपि प्राकृतं कर्मैव। अतस्तद्विशिष्टयोरपि कर्मकर्त्रोः कर्मविशिष्टत्वमेव भवति।
ननु च 'निर्वृत्तमि' त्येतस्य कथं कर्मता?
इदं ह्यनुद्रिक्ते कर्मांशे कर्त्तरि वा प्रयुज्यमानं दृश्यते।
अन्तर्भूत—ण्यर्थत्वेनास्य सकर्मकत्वमपि मन्यन्ते। तथा च कात्यायनः —
उत्तारणाय जगतः प्रपितामहेन
तस्मात् पदात् त्वमपि रज्जुरिव प्रवृत्ता ॥ १४ ॥
मल्लनागोऽ(कामसूत्रकृद् वात्स्यायनोऽ) प्याह 'नागरकवृत्त्या वर्त्तेते —ति (कामसू. १.४.१)।