अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥ १५ ॥
यदा तु कृतः पूर्वं कटोऽनेनेति विग्रहः, तदापि न दोषः, यतो यद्यपि कृतादिशब्दाः कर्मणि व्युत्पद्यमानाः सामानाधिकरण्यात् कटादिकर्मविशेषं निर्भुञ्जते, तथापि नेत्थम्भूता एव प्रत्ययमुत्पादयन्ति, वृत्तीनां विशेषप्रत्यायनासामर्थ्यात्; अतो वृत्तिविषयेऽनपेक्षितविशेष— कर्मान्तर्भूतकर्मसामान्योऽन्य एव कृतशब्दो भवति।
अविवक्षितकर्माणोऽन्तर्भूतकर्माणश्चाऽकर्मका एव जायन्ते, यथा— तस्माद् दीक्षितो न ददाति न पचति न जुहोति इति। एवमकर्मकत्वेऽन्तर्भावाभिधाय्येव, तच्चानपेक्षत्वात् सामर्थ्ये सति प्रत्ययमुत्पादयति। प्रत्ययार्थश्च कर्त्ता क्रियया प्रकृत्यर्थेन यदीप्सति तत् कर्म अनभिहितं प्रत्ययेन, ततो द्वितीया भवति। तदुक्तं भाष्ये (२.३.६५)— 'योऽसौ कृतकटयोः संबन्धः स उत्पन्ने प्रत्यये निवर्त्तते; अस्ति च करोतेः कटेन सामर्थ्यमिति द्वितीया भविष्यति कृतपूर्वी कटमिटि'। हरिरप्याह—
विशेषकर्मसम्बन्धे विनिर्भुक्ते कटादिभिः।
विशेषनिरपेक्षोऽन्यः कृतशब्दोऽवकल्पते ॥ १६ ॥
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत्।
तेन क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ १७ ॥
(वाप. ३.६५—६६ वृत्तिः) इति।
यदि वा शास्त्रप्रक्रियाभ्यासबाधितमतीनामेवायमभिमानः वाक्यार्थे वृत्तयो भवन्ती—ति। परमार्थतस्तु वृत्तिवाक्ययोरन्यत्वमेव मन्यन्ते, अर्थविप्रकर्षात्। यथाहि— वाक्ये यः कटादिसम्बन्धः स वृत्तौ नास्ति, तस्यान्तर्भूतकर्मणः कृतशब्दस्य भावाभिधायित्वात्। तदुक्तम्— (वाप.३.६४ वृत्तिः)