भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 301 to 310 of 1013 verses
सापेक्षो यथा— पितुः पिता पितामहः पितुर्भ्राता पितृव्यः, मातुर्मातुलः, भ्रातुरपत्यं भ्रातृव्यः, स्वसुः स्वस्त्रीयः इति।

(२. गुणरूपः) 'तस्येदम्' (४.३.१२०) इत्यादिराश्रितवचनो गुणवचनो गुणरूपः।

स द्विधा षष्ठीविशेष्यः अषष्ठीविशेष्यश्‍च। तयोः —

षष्ठीविशेष्यो यथा— युष्माकमियं गौः यौष्माकी गौः, देवदत्तस्य भूतपूर्वो देवदत्तरूप्यो राजा, पुत्रस्य निमित्तं पुत्रीयः संयोगः, विदिशाया अदूरभवं वैदिशं नगरम्, मूर्वायाः विकारो मौर्वं भस्म (४.३.१३५), दूर्वाया अवयवो दौर्वः काण्डः इति।

अषष्ठीविशेष्यो यथा— वत्सेभ्यो हितो वत्सीयो गोधुक् (५.१.५), अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि (५.१.१२), शरणे साधु शरण्यो राजा (४.४.९८, ५.३.१०३), आकर्षे कुशल आकर्षको धूर्त्तः (५.२.६४), पुष्पैर्वित्तः पुष्पचणश्‍चम्पकः, (५.२.२६), सूर्येणैकदृक् सौरी बलाका (४.३.११२, तैसं ५.५.१६)

(३. अभिन्नरूपश्‍च) प्रकृत्यैकच्छायोऽभिन्नरूपः।

स द्विधा— लिङ्गसंख्यानुग्राही लिङ्गसंख्योपग्राही च। तयोः— लुगभिधेयो लिङ्गसंख्यानुपग्राही। यथा— गर्गस्यापत्यानि गर्गाः (२.४.६४), पञ्चालस्य राजानः पञ्चालाः (४.१.१८०), अत्रेरपत्यानि अत्रयः (२.४.६५), कुसुम्भ्याः पुष्पं कुसुम्भम्, बदर्याः फलं बदरम् (३.४.१६३), लवणेन संसृष्टो लवणः सूप इति।

लुबभिधेयो लिङ्गसंख्योपग्राही। यथा— पञ्चालानां निवासः पञ्चाला जनपदः (१.२.५२, ४.२.८) वरणाः सन्त्यस्मिन् वरणा नगरी (४.२.८२), शिरीषाणामदूरभवः शिरीषोः१ ग्रामः (१.२.५१),किञ्च गोदौनाम, ह्रदौ, तयोरदूरभवो ग्रामो गोदौ (१.२.५२)। हरीतक्यादिषु पुनर्व्यक्तिमेवोपगृह्‍णाति, न वचनम्, हरीतक्या फलानि हरीतक्यः।

खलतिकादिषु वचनमेव न व्यक्तिम्— खलतिको नामाद्रिः तस्यादूरभवानि खलतिकं वनानि (१.२.५१) इति।

ननु च वसिष्ठस्यापत्यमित्यादौ भिन्नाधिकरणत्वाद् द्वयमेवाश्रयते पितरं पुत्रं च। तथाहि उभयमपि संबन्धादभ्यधिकं प्रतीयाते— पितुश्‍चामी पुत्राः स्वमिति, तत् कस्मात् एकस्मादेव षष्ठी तद्धितो वा?

Showing 301 to 310 of 1013 verses