भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 1013 verses
उच्यते— यद्यप्ययमुभयाधिकरणः, तथाप्येक एव, भेदे हि नोभयाधिकरण एकः स्यात्, सम्बन्धद्वयप्रसङ्गात्।

सोऽयमेकोऽनेकाश्रयः, एकश्‍चैव विभक्त्योच्यते, एकस्मादेव च तद्धितोत्पत्तिर्भवति।

एवमपि पितुरेव षष्ठीति नियमो न स्यात्।

कः पुनराह नियम इति, यावता मातुः पिता मातामह इत्यपि भवति।

कुतः पुनरिदं यदेकदा तु स्वामिनः, अन्यदा तु स्वस्माद् विभक्तिः तद्धितो वेति?

संबन्धस्य पदन्यासातिरेकात्। नियोगतो हि पितापुत्रयोरेकस्य प्राधान्यमन्यस्यो— पसर्जनत्वम्, तुल्यत्वे सम्बन्धाऽभावात्। तत्र न प्रधानं पुत्रादि गुणानुरोधेन प्रवर्त्तितुमर्हति; उपसर्जनं तु पित्रादि यथा प्रधानाऽनुग्रहस्तथाऽऽत्मनं निर्वर्त्तयति, स्वरूपावस्थितौ प्रधानार्थाऽसिद्धेः।

अतोऽप्रधाने संबन्धस्याधिकः पदन्यासः। तत्र षष्ठी तद्धितोत्पत्तिर्वा भवति। सा चैकत्वात् संबन्धस्य पुत्रगतमप्येनमभिधत्ते। यदा तु मातुः पिता मातामह इति विवक्षातः प्राधान्यविपर्ययः तदा अपत्याद्युत्पन्नया षष्ठ्या द्विष्ठोऽप्यसावभिहित इति न सा, तद्धितो वा पितृशब्दात्। तदुक्तम्— (वाप. ३.७.१५७)

द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते।

तत्राभिधीयमानश्च प्रधानेऽप्युपयुज्यते ॥ १९ ॥

इति १. 'शिरीषा' इत्येव बहुवचनान्तः पाठः सर्वत्र।

Showing 311 to 320 of 1013 verses