एवं 'तेनैकदिक्' (४.३.११२), 'तदर्थं विकृतेः प्रकृतौ (५.१.१२),
'तस्य निमित्तम्' (५.१.३८), तेन वित्तश्चुञ्चुप्चणपौ (५.२.२६),
'त्स्मै हितम्' (५.१.५), वपुप्प्रकरणे 'युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्' (५.२.३९ वार्त्ति. काशिका), इत्यादिषु षष्ठ्यन्ता अपि द्विष्ठत्वादेकविभक्तिवाच्यत्वेनावगन्तव्याः।
ननु च तृतीयादीनां व्यतिरेकविभक्तित्वात् षष्ठीवदेव भवतु सम्बन्धाभिधान— सामर्थ्यात्, प्रथमायाः पुनरव्यतिरिक्तप्रातिपदिकार्थाभिधायिन्याः कथमिवैतदुपपद्यते— 'त्वमिव त्वावान्' अहमिव मावान्' इति। अत्रैके वर्णयन्ति—'त्वावतः पुरूरवसः', 'यज्ञं विप्रस्य मावतः', 'न त्वावाँ अन्यो दिव्यो न पार्थिवः' (ऋवे. ८.४६.१, १.१४२.२, ७.३२.२३) इति प्रथमान्तायाः प्रकृतेः प्रधानभूतेऽपि संबन्धिनि प्रयोगदर्शनात् प्रत्ययोऽवगम्यते।
अन्ये त्वाहुः (वाप. ३, वृत्तिः, कैयटो हेलाराजादयः)—त्वमिव त्वावान्, अहमिव मावान् इत्युपमानमत्र प्रथमान्तं प्रकृत्यर्थः, उपमेयं प्रत्ययार्थः। न तत्र तावदवच्छेदकत्वादुपमानं प्रधानम्। अवच्छेदकादप्युपमानात् षष्ठी नोत्पद्यते, व्यतिरेकहेतोरसंभवात्; इवशब्दो ह्यसत्त्वभूताभिधायित्वान्न व्यतिरेकाधायकः, सादृश्यद्योतको ह्यसौ। अन्यश्च न कश्चिदिह व्यतिरेकहेतुः श्रूयते। अतश्च गौरिव गवय इत्यादाविवाऽत्र षष्ठ्या अभावः, व्यतिरेकहेतौ तु सति इवशब्दप्रयोगे उपमानात् षष्ठ्युत्पद्यते— 'देवदत्तस्येव यज्ञदत्तस्य दन्ता' इति। तदुक्तम्—
इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना।
नाधिक्यमुपमानेऽस्ति द्योतकः स प्रयुज्यते ॥ २० ॥
मा भूत् षष्ठी, प्रथमयाऽपि न भवितव्यमेव, उपमानस्यावच्छेदकत्वेना— प्याधिक्यात्/?/कः पुनराह—'अनधिक एव प्रातिपदिकार्थे प्रथमे'—ति; पाटलिपुत्राद् राजकं सप्त योजनानि, सप्तसु वा योजनेषु इति अध्वनः प्रथमा सप्तमी च स्मर्यते, संबोधने च प्रथमैव विधीयते; धिक् देवदत्तम्, हा देवदत्तम् इति च द्वितीयाविषये प्रथमाप्रयोगो दृश्यते। यथा— 'हा धिक् कष्टमनिष्टमस्तकरूणः कोऽयं विधेः प्रक्रमः' (मामा. ५.२४) 'कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः' (मवीच. २.२०) इति।
षष्ठ्यन्ताभिधेयो गुणभूतः।