भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 1013 verses
स त्रिधा १. भावविशिष्टः, २. कारकविशिष्टः, ३. सम्बन्धिविशिष्टश्‍च। तेषु— (१) भावेनावच्छिन्नो भावविशिष्टः। स द्विधा मुख्येन उपाधिना च। तयोः— मुख्येन यथा—कृषिरस्यास्तीति कृषीवलः (५.२.११२), मायावी (५.२.१२१) आमयावी (५.२.१२२), दयालुः (५.२.१२२), श्रद्धालुः (३.२.१५८) इति। उपाधिना यथा— मृदङ्गो वाद्यते इति शिल्पमस्य मार्दङ्गिकः (४.४.५५), अपूपाः क्रियन्त इति शिल्पमस्य आपूपिकः, मासं ब्रह्मचर्यमस्य भिक्षोः मासिकः, अस्ति परलोक इति मतिरस्य साधोरास्तिकः, नास्ति नरकादिकमिति मतिरस्यासाधोः स नास्तिकः, दिष्टमेव प्रभवतीति मतिरस्य जिगीषोः दैष्टिक इति।

(२) कारकेणावच्छिन्नः कारकविशिष्टः।

स द्विधा— स्वतन्त्रेण अस्वतन्त्रेण च। तयोः— स्वतन्त्रेण यथा— धनमस्यास्तीति धनवान् वदान्यः (५.२.१३०), पञ्चमोऽस्य मासो जातस्य वर्त्तते पञ्चमी बालकः (५.१.१६), तारकाः सञ्चाता अस्य तारकितं नभः (५.२.३६), समयः प्राप्तोऽस्य सामयिकं कर्म (५.१.१०४), 'एकमन्यत् कर्माध्ययने वृत्तमस्य ऐकान्यिकः (४.४.६४) इति।

अस्वतन्त्रेण यथा— लवणं पण्यमस्य लावणिकः (४.४.५२), वासुदेवे भक्तिरस्य वासुदेवकः (४.३.९८), धनुः प्रहरणमस्य धानुष्कः (४.४.५७), प्रस्थः परिमाणमस्य प्रासिथकः (५.१.५७), सलातुरोऽस्याभिजनः सालातुरीयः (४.३. ९४), ग्रामो निवासोऽस्य ग्रमीण (४.२.९४) इति।

(३) सम्बन्धिनाऽवच्छिन्नः सम्बन्धिविशि।ष्टः।

स द्विधा विशेष्येण विशेषणेन च। तयोः—

विशेष्येण यथा—अपूपा हिता एषा आपूपिका अवन्तयः (४.४.६५), मूलमाबर्हि एषां मूल्या माषाः (४.४.८८), बृहती आदिरस्य बार्हतः प्रगाथः (४.२.५५), कालः प्रकृष्टोऽस्य कालिकमृणम् (५.१.१०८), किञ्च निशासम्बन्धादययनपि निशा। तदस्य सोढं (४.३.५२) नैशः, एवं प्रादोषिक (४.३.५१) इति।

विशेषणेन यथा— इन्द्रो देवताऽस्य ऐन्द्रं हविः (४.२.२४), संशप्तका योद्धारोऽस्य सांशप्तकः संग्रामः (४.२.५६), विनयः प्रयोजनमस्यां वैनायिकी विद्या (५.१.१७१?), देवदत्तो ग्रमणीरस्य देवदत्तकः सङ्घः (५.२.७८), पञ्चावयवा अस्यां पञ्चतयी गतिः (५.२.४२), पञ्चस्य भृतिर्वस्नो वा पञ्चकः पदार्थ (५.१.५६) इति।

ननु च 'तस्यापत्यम्' (४.१.९२) इत्यादौ उपगोरपत्यम् औपगवः इति 'समर्थानां प्रथमाद् वा' (४.१.८२) इत्यधिकारात् षष्ठ्यन्ता प्रकृतिरपत्यवतो गुणभूतस्य वाचिका, प्रथमान्त तु प्रधानभूतमपत्यं प्रत्ययार्थ एव। 'तस्तेदम्' (४.३.१२०) इत्यादावपि प्रधानं संबन्धि तद्धितवाच्यमित्युपपद्यते। 'साऽस्य देवता' (४.२.२४) इत्यादौ तु इन्द्रो देवता अस्य ऐन्द्रं हविरिति पूर्वोक्तादेवाधिकारात् सेति प्रथमान्ता प्रकृतिरिन्द्रादिदेवतावाचिका प्रधनम्। गुणभूतस्तु संबन्धी पुरोडाशादिरस्येत्यनेनाप्रधनीभूतसंबन्धि वाचकत्वेन निर्दिष्टः प्रत्ययार्थः। तत्कथमिवायं विपर्यस्तः प्रधानगुणभाव उपपन्नो भवति?

उच्यते— गुणभूतोऽपि संबन्धी बुद्ध्यन्तरेणऽप्रधानभावात् प्रच्याव्य आसादित— प्रधानभावः प्रत्ययार्थत्वेन प्रदर्श्यते। अत एवेन्द्रो देवताऽस्येत्येतावानेव विग्रहो न कार्यः; वृत्तिसमानार्थेन हि तेन भवितव्यम्। न चैतावतो वृत्तिसमानार्थता। वृत्तौ हि इन्द्रादिदेवतावच्छिन्नं पुरोडाशादि अवगम्यते, वाक्ये तु पुरोडाशाद्यवच्छन्नेन्द्रादिदेवतेति।

Showing 331 to 340 of 1013 verses