भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 1013 verses
अयं तु विग्रहो वृत्त्या समानार्थः— 'इन्द्रो देवता अस्य तदिदमिन्द्रस्वाम्य— वच्छिन्नमैन्द्रं हवि' रिति। तदिदमुक्‍तम्—

अनन्तरोक्‍तः संबन्धी प्रतिपद्य प्रधानताम्। बुद्धयन्तरपरामर्शाद् वाच्यतां प्रतिपद्यते ॥२१॥

प्रकृत्यर्थविशिष्टो हि प्रत्ययार्थोऽभिधानभाक्। न्यायः स, न म तः सास्येत्यधिकारसमाश्रयात् ॥२२॥

एवं 'सोऽस्यादिरितिच्छन्दसः प्रगथेषु' (४.२.५५) इत्यादावपि गुणभूतः सम्बन्धी तद्धिताभिधेयो बोद्धव्यः। यत्र तु गुणभूतः सम्बन्धी प्रत्ययार्थः तत्र न प्रधानम्, यत्र प्रधानं तत्र न गुणभूतः।

कुतः पुनरिदं ज्ञायते?

आचार्यप्रवृत्तिर्ज्ञापयति—यदयं निवास—निवासवत्—संबन्धे उभयमाह— 'तस्य निवासः' (४.२.६९) 'सोऽस्य निवासः' (४.३.८९) इति।

ननु च अपत्यापत्यवत्संबन्धेऽप्युभयं संभाव्यते— 'माता अपत्यमस्य मातामहः, पिताऽपत्यमस्य पितामह' इति।

नैवम्, पितुः पिता पितामहः, मातुः पिता मातामह इति करिष्यते।

तथापि हृदयस्य बन्धनं श्रृङ्खलमस्य बन्धनं करभे' (५.२.७९) इति कथम्?

नान्योऽत्र बन्धनशब्दः संबन्धवचनः, यथा हि बन्धनमित्यनेन दामोच्यते।

Showing 341 to 350 of 1013 verses