वाढमेषोऽस्मि कामन्दकी संवृत्तः (मामा. १ प्रस्तावना) इति।
ननु, ही, नु,अपि, हुम्, न, किल, ननु, किल, एवम्, शश्वदित्यनुप्रश्नार्थाः।
यथा— अकार्षीः कटं देवदत्त? ननु करोमि भोः, (काशिका ३.२.१२०)
अकार्षँ ही ह्यः, (काशिका ८.२.९३)
कथं नु करिष्यामि, (निरुक्तम् १.४.१७)
अपि भवान् मकरन्दः? (मामा. ९.४१)