नैवम्, बन्धनमित्यनेन संज्ञाशब्दोपाश्रयः श्रृङ्खलकः करभः इति।
एवं च निवासतदवतोरपि शेषषष्ठ्यभ्युपगमत्वे कर्तृविशिष्टमधिकरणं वाच्यम्—शिबीनां निवासः शैब इति (४.२.६९), अपरत्राधिकरणविशिष्टः कर्त्ता— ग्रामे निवासोऽस्य सोऽयं ग्रऽयं ग्राम्य इति।
ननु च ग्रामशब्दोऽयं समुहवचनः, तद् यथा 'अश्व/स्त्रग्रामाविधौ कृती स समरेष्वस्यास्ति तुल्यः पुमान्' 'न रुणत्सीन्द्रियग्रमम्' इति।
समूहश्च समूह्यपेक्षः इति सापेक्षत्वादसामर्थ्ये तद्धितोत्पत्तिर्न भवति।
नापि सामान्येन समूहाद् भविष्यतीति वच्यम्, तावत्येवार्थे तस्यापरिसमाप्ये— र्दुरधिगमाभिधाने च सामर्थ्याभावात्।
न च यथा देवदत्तस्य मातुः पिता मातामहो देवदत्तस्य, विष्णुमित्रस्य गुरोः कुलं गुरुकुलं विष्णुमित्रस्येति सापेक्षस्यापि तद्धितः समासो वा भवति, एवमस्यापि भविष्यतीति वाच्यम्, न ह्ययं संबन्धिशब्दः। सम्बन्धिशब्दानामेव च सापेक्षणां वृत्तयो भवन्ति। यदाह— (वाप. ३.१४.४७ वृत्तिः)
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्त्तते। स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥२३॥
अन्येषां तु विशेषणानां न वृत्ति, वृत्तनां वा न विशेषणमित्येव। न हि भवति ऋद्धस्य राज्ञः पुरूष ऋद्धराजपुरूष इति, नापि ब्राह्मणानां ग्रमो निवासोऽस्य ब्रह्यणानां ग्रमायोऽयमिति। (मभा. २.१.१)।
कथं तर्हि (मभा. २.१.१) राज्ञः पुरूषः शोभनो राजपुरूष इति?