भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 351 to 360 of 1013 verses
नैवम्, बन्धनमित्यनेन संज्ञाशब्दोपाश्रयः श्रृङ्खलकः करभः इति।

एवं च निवासतदवतोरपि शेषषष्ठ्यभ्युपगमत्वे कर्तृविशिष्टमधिकरणं वाच्यम्—शिबीनां निवासः शैब इति (४.२.६९), अपरत्राधिकरणविशिष्टः कर्त्ता— ग्रामे निवासोऽस्य सोऽयं ग्रऽयं ग्राम्य इति।

ननु च ग्रामशब्दोऽयं समुहवचनः, तद् यथा 'अश्‍व/स्त्रग्रामाविधौ कृती स समरेष्वस्यास्ति तुल्यः पुमान्' 'न रुणत्सीन्द्रियग्रमम्' इति।

किञ्चातः?

समूहश्‍च समूह्यपेक्षः इति सापेक्षत्वादसामर्थ्ये तद्धितोत्पत्तिर्न भवति।

नापि सामान्येन समूहाद् भविष्यतीति वच्यम्, तावत्येवार्थे तस्यापरिसमाप्ये— र्दुरधिगमाभिधाने च सामर्थ्याभावात्।

न च यथा देवदत्तस्य मातुः पिता मातामहो देवदत्तस्य, विष्णुमित्रस्य गुरोः कुलं गुरुकुलं विष्णुमित्रस्येति सापेक्षस्यापि तद्धितः समासो वा भवति, एवमस्यापि भविष्यतीति वाच्यम्, न ह्ययं संबन्धिशब्दः। सम्बन्धिशब्दानामेव च सापेक्षणां वृत्तयो भवन्ति। यदाह— (वाप. ३.१४.४७ वृत्तिः)

संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्त्तते। स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥२३॥

अन्येषां तु विशेषणानां न वृत्ति, वृत्तनां वा न विशेषणमित्येव। न हि भवति ऋद्धस्य राज्ञः पुरूष ऋद्धराजपुरूष इति, नापि ब्राह्मणानां ग्रमो निवासोऽस्य ब्रह्यणानां ग्रमायोऽयमिति। (मभा. २.१.१)।

कथं तर्हि (मभा. २.१.१) राज्ञः पुरूषः शोभनो राजपुरूष इति?

Showing 351 to 360 of 1013 verses