विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा।
शब्दान्तरत्वाद् वाक्येषु वृत्तौ नित्यं न विद्यते ॥ १८ ॥
भाष्यकारोऽप्याह (२.३.६५)— 'नेदमुभयं युगपद् भवति वाक्यं च प्रत्ययश्च; यदा वाक्यं न तदा प्रत्ययः, यदा प्रत्ययः सामान्येन तदा वृत्तिः। तत्राऽवश्यं विशिषार्थिना विशेषोऽनुप्रयोक्तव्यः 'कृतपूर्वी कटमि'—ति। एवमधीतमनेन, अधीतं व्याकरणमनेन' इति वा अधीती व्याकरणे इत्यपि व्याख्यातम्।
(३. सम्बन्धितद्धिताः (षष्ठी))
सम्बन्धी द्विधा— प्रधानं गुणभूतश्च।
तयोः प्रथमान्ताभिधेय प्रधानम्।
स त्रिधा— १. द्रव्यरूपः, २. गुणरूपः ३. अभिन्नरूपश्च। तेषु —
(१. द्रव्यरूपः) 'तस्याऽपत्यम्' (४.१.९२) इत्यादिराश्रयवचनो द्रव्यरूपः।
स द्विधा निरपेक्षः सापेक्षश्च। तयोः —
निरपेक्षो यथा— वसिष्ठस्यापत्यं वासिष्ठः, पाणिनेः शिष्यः पाणिनीयः, पञ्चालानां राजा पाञ्चालः, पृथिव्या ईश्वरः पार्थिवः, पाटलायाः पुष्पं पाटलम्, जम्ब्याः फलं जाम्बवम् इति।