तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥ ५१ ॥
वासेनाधीते, अध्ययनेन वसतीति, या च यूपाय दारु, अध्ययनाय वसतीति। यस्तु मन्यते तदर्थता तदर्थता तद्विषयस्य पारर्थ्यरूपा, कार्यप्रसवयोग्यता हेतुः, अनन्यार्थस्य तादर्थ्यम्, तस्य तद्विषयस्येति अनन्यार्थस्येति विशेषणद्वयमपार्थम्, उभयत्राविशेषात्। यदि तावदर्थस्यानन्यार्थता तादर्थ्यम् तदसत्। कनकस्य वलयादावपि सामर्थ्यं, सङ्घातात्। अथोक्तिधर्मेण, तद्धेतावपि समानम्। न हि विद्याया यशोहेतुतां मुक्त्वा कार्यान्तरयोग्यतां ब्रुते। पारार्थ्यरूपेत्यपि न वचनीयं, कार्यप्रसवयोग्यतेत्यनेनैव गतार्थत्वात्। ननु च नटस्य श्रृणोतीत्यादै कार्यप्रसवयोग्यस्यापि नटादेः पारार्थ्येन विवक्षायां मा भुद्धेतुत्वमिति विशेषणं क्रियते। नैवम्; यथा उपाध्यायादधीत इति उपाध्यायादेः परार्थत्वेन कारकत्वं, प्रयोजकत्वमेव च तादर्थ्यमिति।
अथ लक्षणस्य का वार्ता ? लक्षणमपि तादर्थ्यवद्धेतुविशेष एव। सिद्धो हि हेतुः कारको ज्ञापकश्च। तत्र कारकस्य स्वव्यापारानाश्रयणे हेतुरित्याख्या, ज्ञापकस्य लक्षणमिति; पदार्थान्तरपरिच्छेदहेतुता हि लक्षणार्थः। तदुक्तम्—
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते।
आश्रयावधिभावं तु लक्षणे लक्षणं विदुः ॥ ५२ ॥
क्वचित्तु हेतुरपि लक्षणं भवति; यथा 'शाकल्यस्य संहितामनु प्रावर्षत्, अनडुद्यज्ञमन्वसिञ्चत्, प्रजाः पर्जन्य इति। एतेन वृक्षं प्रति विद्योतते (विद्युद्) इति द्रव्यलक्षणम्, जटाभिस्तापस इति इत्थंभूतलक्षणम्, अक्ष्णा काण इति विकारलक्षणं, वाताय कपिला विद्युदित्युत्पातलक्षणं, गोषु दुह्यमानासु गत इति भावलक्षणं, पचन्नास्त इति क्रियालक्षणं च व्याख्यातमिति।
एकार्थपरः पदसमूहो वाक्यम्। तत् त्रिधा—