परावरविभागार्थे स शक्तीः प्रतिपद्यते॥ ५४॥
भूतानां चैव यद् रूपं रूपं यद् भाविनामपि।
सुदुर्दर्श इवादर्शे काल एवोपलभ्यते॥ ५५॥
क्रियाभेदाद् यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते।
क्रियाभेदात् तथैकस्मिन् नृत्वाख्या चोपजायते॥ ५६॥
विशिष्टमवधिं तं तमुपादायावकल्पते।
कालः कालविदामेकः कलादिप्रविभक्तये॥ ५७॥