सत्तालक्षणमन्ये तु क्षणरूपं तथाऽपरे।
देवतावस्तुशक्त्यात्मस्वरूपमपरे विदुः॥ ४७॥
तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते॥ ४८॥
प्रतिबद्धाश्च यास्तेन चित्रा विश्वस्य शक्तयः।
तास्स एवानुजानाति यथा तन्त्रशकुन्तिकाः॥ ४९॥
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शाश्वती।
तया विभज्यमानोऽसौ लभते क्रमरूपताम्॥ ५०॥