तृणराजस्य या वृद्धिस्तवचिसारस्य व दधत्।
चिरक्षिप्रादिभेदे च कालतत्त्वं विकल्पते॥ ५१॥
व्यतिक्रमेऽपि मात्राणां न तस्यास्ति व्यतिक्रमः।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन॥ ५२॥
दूरान्तिकव्यवस्थानमध्वादि करणं यथा।
चिरक्षिप्रव्यवस्थानं कालोऽधिकरणं तथा॥ ५३॥
क्रियोपाधिस्स या भूतभविष्यद्वर्तमानताः।