तृणपर्णलतादीनि यथा स्त्रोतोऽवकर्षति।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा॥ ५८॥
प्रारम्भावेशनिष्ठासु स्थितिविप्रतिपत्तिषु।
साम्योत्कर्षापकर्षेषु निमित्तं काल इष्यते॥ ५९॥
संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः।
संभिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते॥ ६०॥
प्रतिव्यवस्थं कालस्य व्यापारोऽत्र व्यवस्थितः।
कालो वा विश्वरूपात्मा व्यापार इति कथ्यते॥ ६१॥