क्रियावच्छेदहेतुं वा क्रियावच्छेद्यमेव वा।
कालत्मानमनाश्रित्य व्यवहर्तुं न शक्यते॥ ६२॥
तस्याव्यक्तस्वरूपस्य व्यवहारे क्रियाकृताः।
भूतादयो महाभेदा यान् लोको नातिवर्तते॥ ६३॥
के पुनस्ते? यान् भूत उपाधौ (भूताद्युपाधौ) लुङादिविषयानुदाहरिष्यामः॥
तदेतद् द्रव्यात्मनः क्रियात्मनो वा क्रियापरिच्छेदिनः कालस्य स्वरूपमभिहितम्।
अथापरमपरिमेयात्मनो देवतादिरूपस्य स्वशक्तिनिमित्तविश्वप्रवृत्तिपरिच्छेद्यस्य तस्य परिच्छेदिनो वा क्रियाहेतुशक्त्यायतनभूतं द्रव्यरूपपरिणतं विवृत्तं वा, यत् समस्तविवृत्त— संग्रहानुग्रहादिनित्यनैमित्तिकादिरूपं स्वरूपमस्तिः तत् पुरस्तात् प्रतिपादितं, अग्रतश्च विशेषतः प्रतिपादयिष्यत इति नेह प्रतन्यते, संबन्धावच्छेदार्थं तु लेशतोऽ— भिधीयत इति। तत्प्रभेदाद् द्रव्यरूपोऽपि कालश्चतुर्धा— नित्यो, नैमित्तिकः, स्वाभाविको, वैपरामार्शिक इति। तेषु —
१. नित्यः शाश्वतिको, वैकल्पिकः नैयोगिकश्च त्रिधा।