व्यवहितं द्विधा, विशेष्यरूपं विशेषणरूपं च।
विशेष्यरूपं यथा— द्विमयमुदश्विद् यवानाम्, द्विमया यवा उदश्वितः (काशिका ५.२.४७)।
विशेषणरूपं यथा— 'पञ्चमो मासोऽस्य जातस्य पञ्चमी बालकः (काशिका ५.२.१.३०), षष्ठं रूपग्रन्थग्रहणमस्य षट्को वटुः।
(३) गुणोऽपि त्रिधा— आश्रितः प्रवृत्तिनिमित्तमुपाधिश्च। तेषु—
आश्रितो द्विधा— अभिन्नरूपो भिन्नरूपश्च। तयोः
अभिन्नरूपो यथा—भिक्षाणां समूहो भैक्षम्, काकोलूकस्य वैरं काकोलूकिका।
भिन्नरूपो यथा— ऋत्विजां कर्मार्त्विज्यम्, पीलूनां पाकः पीलुकण इति।
प्रवृत्तिनिमित्तं द्विधा— अनुरञ्जकमननुरञ्जकं च। तत्र
अनुरञ्जकं जात्यादि, यथा—ब्राह्मणस्य भावः ब्राह्मण्यम्, ऋजोर्भाव आर्जवमिति।
अननुरञ्जकं सम्बन्धादि, यथा—दण्डिनो भावो दण्डित्वम्, पाचकस्य भावः पाचकतेति।