भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 841 verses
प्रकृत्यर्थप्रत्ययार्थयोर्विशेषणम् उपाधिः। स द्विधा— व्यस्तस्समस्तश्‍च।

व्यस्तः प्रकृत्यर्थे यथा— शिवो देवताऽस्येति शैवं, लवणं पण्यमस्येति लावणिकः।

प्रत्ययार्थे यथा— गार्गिकया श्लाघते, काठिकयाऽधिक्षिपति। अत्र देवतापण्यश्लाघाधिक्षेपा उपाधयः।

समस्तो यथा— दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। अत्र दण्डशब्दात् 'तदस्याम्' (४.२.५७) इत्यधिकरणे प्रत्ययो विहितो दण्डस्थं प्रहरणत्वम्, अधिकरणत्वं च क्रीडात्वं प्रत्याययति। एवं ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम्। अत्र ह्योगोशब्दाद्विकारे प्रत्ययो विहितः, प्रकृत्यर्थोपाधिं दोहं प्रत्ययार्थो च संज्ञां प्रत्याययमिति।

(३. कारकम्)

कारकं त्रिधा (१)सक्रियं, (२) भिन्नाक्रियम् (३) अभिन्नक्रियं च। तेषु—

(१) सक्रियं त्रिधा— कर्तृरूपं, कर्मरूपम् अनुस्यूतं च।

कर्तृरूपं द्विधा, क्रियाविशेषस्थं कारकविशेषस्थं च। तयोः —

क्रियाविशेषस्थं सुस्‍नातं पृच्छति सौस्‍नातिकः, एवं सौखशायनिकः; प्रभूतमाह प्राभूतिकः; एवं माशब्दिकः, प्रतीपं वर्तते प्रातीपिकः, प्रतिकूलं चरति प्रातिकूलिक इति।

कारकविशेषस्थं यथा— व्याकरणं वेत्त्यधीते वा वैयाकरणः, समां समां विजायते समांसमीना, अक्षैर्दीव्यत्याक्षिकः, संतापाय प्रभवति सान्तापिकः, पितुरागतं पित्र्यम्, समानोदरे शयितः सोदर्य इति।

Showing 311 to 320 of 841 verses