उभयसम्बन्धिनी द्विधा— क्रियाकारकसम्बन्धिनी कारकक्रियासम्बन्धिनी च। तयोः
प्रथमा यथा— पचन्तं प्रयुङ्क्ते पाचयति देवदत्तः, अधीयानं प्रयुङ्क्ते अध्यापयति कारीषोऽग्निः।
द्वितीया यथा— कंसवधमाचष्टे कसं घतयति, आरात्रि विवासमाचष्टे रात्रिं विवासयति।
(२) द्रव्यमपि त्रिधा— विशेष्यं, विशेषणं, व्यवहितं च। तेषु—
विशेष्यं द्विधा— सापेक्षमनपेक्षं च।
सापेक्षं यथा— युष्माकमयं यौष्माको गौः, वत्सेभ्यो हितो वत्सीयो गोधुक्।
अनपेक्षं यथा— वसिष्ठस्यापत्यं वासिष्ठः, पृथिव्या ईश्वरः पार्थिवः।
विशेषणं द्विधा— धर्मिनिष्ठं धर्मनिष्ठं च।
धर्मिनिष्ठं यथा—गावोऽस्य सन्तीति गोमान्, प्रासादोऽस्य स्यात् प्रासादीयं दारू।
धर्मनिष्ठं यथा— अस्तीति मतिरस्यास्तिकः, नास्तीति मतिरस्य नास्तिक इति।