उज्झितस्वरूपो यथा—'वेश्शालच्छङ्कटचौ' (५.२.२८), 'संप्रोदश्च कटच्' (५.२.२९), 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५.२.३४) इति यथा— विशालं, विशङ्कटं, प्रकटं, विकटम्, उपत्यका, अधित्यका इति। अत्रोपसर्गेरशृङ्गत्वादिस्वरूपमुज्झितम्।
अनुज्झितस्वरूपो यथा— 'वत्सोक्षश्वर्षभेभ्यश्च तनुत्वे' (५.३.१९), 'कासूगोणीभ्यां ष्टरच्' (५.३.९०), 'किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (५.४.११)। 'विनञ्भ्यां नानाञौ नसह' (५.२.२७)। यथा— वत्सतरः, उक्षतरः, नितराम्, अतीवतरां, विना, नानेति।
उपचरितार्थवृत्तिः सन्दिग्धः। स द्विधा— सङ्ख्यावानसङ्ख्यतश्च। तयोः—
तिङन्तार्थो यथा— पचतितरां, पचतकीति (५.३.७४,७५)।
सुबन्तार्थो यथा— त्वयका, उच्चकैः (५.३.७४) इति।
(३) उक्तादन्यः शेषः स द्विधा प्रत्ययार्थः समासार्थश्च।
प्रत्ययार्थो द्विधा, कृदर्थस्तद्धितार्थश्च। तयोः
कृदर्थो यथा— व्यावक्रोशी, सांराविणमिति।
तद्धितार्थो यथा— आभिजित्यः(५.३.११८), कौञ्जायन्यः(५.३.११३) इति।
समासार्थो द्विधा— समासनिमित्तम्, समासनिमित्तश्च। तत्र