यच्चोक्तं — यथा जलादिभिरादर्शैरभिव्यक्ताश्चन्द्रादय एव चन्द्रादिशब्दैर— भिधीयन्ते, यथा चेन्द्रियभेदग्रहणमन्तरेणापि रूपादिविषयज्ञानभेदो भवति, तथा व्यक्तिभिरुपव्यञ्जिता जातय एव गवादिशब्दैरभिधीयन्ते, व्यक्तिग्रहणे च तदुपव्यञ्जना जातिर्ग्रहीष्यति (इति), तदपि न सम्यक्। यदा तावत् प्रतिबिम्बमुदकादिषु भावान्तरमेवोपजायत इथि दर्शनम्, तदा तद्रूपभेदानुपातिनः शब्दाः किमिति उदकादीनुपाददीरन् यतो नोदकादयस्तदानीं चन्द्रादीनामुपव्यञ्जनम्, अपि तु रूपजनन— कारणम्; न च कार्यवचनाः शब्दाः कारणसंस्पर्शमनुभवन्ति। यदा तु दर्शनविप्लवः स तादृश इति प्रतिपत्तिः, तदा दूरोत्सारितावकाशो व्यङ्ग्यव्यञ्जकभावः। यदा तर्हि जलाद्यादर्शप्रतिघातात् परावृत्ते चक्षुषि स्ववक्त्रवच्चन्द्रादयोऽपि दृश्यन्त इति दर्शनं तदैतदुपपत्स्यते। तदा ह्युदकादिवत् सन्निहितमुपव्यञ्जनं रूपभेदेन जातिमभिव्यक्तरूपभेदां दर्शयति। तदेव च शब्दोऽभिधत्ते। एतदप्यव्यभिचरितोपव्यञ्जनायत्तदर्शन(नाः) जातयः कथं विनोपव्यञ्जनैः प्रतीयन्त इति पर्यनुयोगो नातिचतुरश्रम्; चन्द्रादीनामन्यथापि दर्शनोपपत्तेः। एवं जातिभेदप्रतिपत्तावपि। यथा दर्शनादीन्द्रियायत्तोदयाः नीलाद्यर्थावसायाः कारणभेदमनु परिवर्तन्ते नैवं जातिपरिच्छेदाः व्यक्तिरूपप्रतिबद्धोत्पादाः, येन तद्भेदमनुविदध्युः। ततश्च गोत्वादयोऽपि परस्परतो न व्यावर्तेरन्। संवेद्यमानभेदश्च पदार्थः कथमकस्मादेक इति श्रद्धीयते?
व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम्।
तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते॥ २६॥
येषामर्थेषु सामान्यं न सम्भवति तैः पुनः।
उच्यते केवला व्यक्तिराकाशादिपदैरिव॥ २७॥
एवं डित्थादिशब्दानां संज्ञात्वविदितात्मनाम्।
अभिधेयस्य सामान्यशून्यत्वाद्व्यक्तिवाच्यता॥ २८॥
ये पुनः कल्पितानेकभेदवृत्तिं प्रचक्षते।
वाच्यं तत्रापि सामान्यमतीव ग्रहिलास्तु ते॥ २९॥