न हि डित्थत्वसामान्यं दृश्यते गगनत्ववत्।
कल्पनायाश्च ना(नो) भूमिः काचिदस्ति विपश्चिताम्॥ ३०॥
आकृतिरेव पदार्थ इति विन्ध्यवासिमतगन्धीयाः।
तत्राकृतिपदेनेह संस्थानमभिधीयते।
लोके शास्त्रे च दृष्टत्वान्न जातिर्जैमिनीयवत्॥ ३१॥
लोके यथा 'यत्राकृतिस्तत्र गुणा वसन्ति' इति। शास्त्रे यथा— 'आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्॥' (मभा. ४.१.६३) इति॥
उभयत्रापि चाकृतिशब्देनावयवसन्निवेशविशेष उच्यते (न्यायमं.)। वृद्धाश्च व्यवहरन्ति यत्रार्थे यत्पदं प्रयुञ्जते त तस्यार्थो भवति। तत्र यदेष गोशब्दः सास्नादिमति प्रयुज्यते न केसरादिमति, तदयमसाधारणसन्निवेशविषयतां द्योतयति।