युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः।
प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते॥ ३४॥
कार्यकारणभावो हि तद्धियो भवतां मते।
तस्माद् विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥ ३५॥
पदादपि तदायत्तसम्बन्धज्ञप्त्यपेक्षिणः।
तत्रैव बुद्धिरित्येवं न व्यक्तेरपि वाच्यता॥ ३६॥
उच्यते, प्रत्यक्षे तावद्द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्विशेष्यमपि विषयीकरोति। न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्। न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षं, तथा पदमपि तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम्। यत्त 'सामान्यांशादपोद्धत्य पदं सर्वं प्रवर्तते॥ ३७॥ (न्यायमं.) इति केवलव्यक्त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते। तद्वदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः।
ननु सर्वात्मना प्रत्यक्षतुल्यविषयश्चेच्छब्दः प्रतिपत्तिसाम्यं प्रसजेत ? न च शब्दादिन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तम्— (वाप. २.४.१९, न्यायमं.)
अन्यथैवाभि(ग्नि)संबन्धाद् दाहं दग्धो हि मन्यते।