भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 301 to 310 of 595 verses
युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः।

प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते॥ ३४॥

कार्यकारणभावो हि तद्धियो भवतां मते।

तस्माद् विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥ ३५॥

पदादपि तदायत्तसम्बन्धज्ञप्‍त्यपेक्षिणः।

तत्रैव बुद्धिरित्येवं न व्यक्तेरपि वाच्यता॥ ३६॥

(न्यायमं.)

उच्यते, प्रत्यक्षे तावद्‍द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्‍‌विशेष्यमपि विषयीकरोति। न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्। न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षं, तथा पदमपि तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम्। यत्त 'सामान्यांशादपोद्धत्य पदं सर्वं प्रवर्तते॥ ३७॥ (न्यायमं.) इति केवलव्यक्‍त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते। तद्‍वदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः।

ननु सर्वात्मना प्रत्यक्षतुल्यविषयश्‍चेच्छब्दः प्रतिपत्तिसाम्यं प्रसजेत ? न च शब्दादिन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तम्— (वाप. २.४.१९, न्यायमं.)

अन्यथैवाभि(ग्‍नि)संबन्धाद् दाहं दग्धो हि मन्यते।

Showing 301 to 310 of 595 verses