न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम्।
अन्वयोऽनन्वितानां च नाभिधानमिति स्थितिः॥ ४१॥
गङ्गायां घोष इत्यादौ यथा सामीप्यलक्षणा।
नैवं गौश्शुक्ल इत्यादौ विद्यते व्यक्तिलक्षणा॥ ४२॥
प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्योऽध्यवसीयते।
तस्माद् गवादिशब्दानां तद्वानर्थ इति स्थितम्॥ ४३॥
सर्वेषु च प्रयोगेषु गां दोग्धीत्येवमादिषु।
तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम्॥ ४४॥
पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति।
न च व्यवहिता बुद्धिर्न च भारस्य गौरवम्॥ ४५॥