केनासीनः सुखमकरूणेनाकरादुद्धतस्त्वं विक्रेतुं वा त्वमभिलषितः केन देशान्तरेऽस्मिन्।
यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि॥ ८१॥
उच्यते— यत्रोपमानमेव प्रयुक्तं प्रतीयमानाभिधीयमानगुणमुपमेयं गमयति, तत्रैवान्योक्तयादयो भवन्ति। इह तु नोपमानं प्रयुज्यते। किं तर्हि ? तद्विशेषणं सर्वनाम; तेन प्रथमोदाहरणे नान्योक्तिः, द्वितीयोदाहरणे तु न समासोक्तिरिति।
यद्येवमध्यासात्मिका तद्भावापत्तिः कस्मान्न भवति ? यथैष बालाबाहुमूले बालचन्द्रमाः; यथा वा— (माघ. १५.६३)
किमहो नृपाः समममीभिरूपपतिसुतैर्न पञ्चभिः।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया॥ ८२॥
उच्यते नात्र सर्वनाम्नामेव प्रयोगः। किं तर्हि ? विशेष्याणामपीति युज्यते तद्भावापत्तिः। 'चन्द्रज्योत्स्ना' इत्यादौ तु सर्वनामाध्यासे समाधिलक्षणयोगा— दुपचारगौण्येवैषा भवित। यथा च धर्मिणोऽप्यध्यासे समाधिरूपपद्यते तथाग्रतो वक्ष्याम इति।
लक्षणा द्विविधा— १. लक्षणा, २. लक्षितलक्षणा च।