यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः॥ ५३॥
शेषविभक्तया वैभक्तो यथा—(मनु. १.९६)
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्रह्मवादिनः॥ ५४॥
उपपदविभक्तया वैभक्तो यथा—(हर्षच १.१)
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥ ५५॥
सम्बोधनविभक्तया च वैभक्तो यथा—
अवनिपवनवह्निव्योमतोयान्तरात्म— न्नहिमकरहिमांशो ! विश्व ! विश्वैकयोने !।
हर ! भव ! शिव ! शर्व ! त्र्यम्बकेशान ! रुद्र ! त्रिनयन ! वृषकेतोऽनन्तमूर्त्ते ! नमस्ते॥ ५६॥