भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 746 verses
यत्र व्यपेक्षोक्ता विभक्तिविपरिणामादयः प्रवर्तन्ते सोऽपि शक्तिविभाक्तिमयो

यथा— (किराता ३.२१)

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।

असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः॥ ६०॥

अत्र यदि जनिक्रियातो निरीक्षणक्रियायाः पूर्वत्वं तदा कर्तृभेदान्नास्ति क्त्वाप्रत्ययः। अथ पक्षपातक्रियातः, तदा निरीक्षणपक्षपातयोः मृत्युनेति भवति क्त्वाप्रत्ययः, अभिधाव्यापारस्तु विघटते; षष्ठ्यभिहितस्य कर्तुः पक्षपातक्रिययैव सम्बन्धः, न निरीक्षणक्रियया। 'कर्तृकर्मणोः कृति' (२.३.६५) इति षष्ठ्याः 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२.३.६९) इति प्रतिषेधात्। स च विभक्तिविपरिणा— माध्याहारविपर्ययवाक्यभेदव्यवहितकल्पनागुणकल्पनाभिरुपपद्यते। तत्र राधेयं निरीक्ष्य मृत्युरपि भयेषु पक्षपाती भवतीति विभक्तिविपरिणामः; राधेयं निरीक्ष्य स्वसामर्थ्यं विमृशतो मृत्योरपि भयेषु पक्षपातो जायेतेति वाक्यभेदः; राधेयं निरीक्ष्य मारयतीति मृत्योरपि भयेषु पक्षपातो जायेतेति व्युत्पत्तिकालाश्रिताया व्यवहितायाः क्रियायाः व्यवहारकालेऽप्याश्रयणात् व्यवहितकल्पना; निरीक्ष्येव निरीक्ष्येति पक्षपातन— स्याचेतनस्यापि चेतनगुणाध्यारोपेण गुणकल्पना। यदाह— 'मुख्याभावे सति प्रयोजने निमित्ते च सत्युपचारः प्रवर्तते' (मभा. ४.१.२७)। दृष्टश्च अचेतनेऽपि प्रेमादौ चेतनादिक्रियोपचारो यथा—

'प्रेम पश्यति भयान्यपदेऽपि॥ ६१॥'

(किराता. ९.७०) 'अवस्था वस्तूनि प्रथयति च सङ्कोचयति च॥ ६२॥'

(अन्विताभिधानमभिहितान्वयवादौ)

अथ किमभिहितानां पदार्थानामन्वय उतान्वितानामभिधानम् ?

'उच्यते— अस्त्यत्र मतभेदः;

Showing 341 to 350 of 746 verses