तत्र एके वर्णयन्ति अन्वितानामभिधानमभिहितानां चान्वयः।
केचिद् ब्रुवते नान्वितानामभिधानं, न चाभिहितानामन्वय इति।
तत्रान्विताभिधानवादिन एवमाहुः — व्युत्पत्तिबलेन हि शब्दोऽर्थमवबोधयति, व्युत्पत्तिश्च वृद्धव्यवहारात्; वृद्धाश्च वाक्येनैव व्यवहरन्ति न पदेनः यच्चार्थप्रकरणादिगम्य— पदार्थान्तरसहकृतं पदं प्रयुञ्जते तदपि वाक्यमेव।
यदप्येकं पदं दृष्टं चरितार्थक्रियं क्वचित्।
वाक्यं तदपि मन्यन्ते सम्बोधनपदादिवत्॥ ६३॥
यच्च कोऽयमिति प्रश्ने गौरश्व इति वोच्यते।
तत्र दृश्यत इत्यादिः प्रश्नोक्तैव क्रियेष्यते॥ ६४॥
वाक्यं चैकार्थपरः पदसमूहः, संहत्यार्थमभिदधति(न्ति) वा पदान्युच्यते। समूहश्चैवमेकार्थः स्यात्। एवं च संहत्यार्थमभिदध्युः पदानि यद्येकैकं पदमभिन्न एवार्थे व्याप्रियेत। तत्र यथा त्रयोऽपि ग्रावाण उखां धारयन्ति, चत्वारोऽप्युद्यन्तारः शिबिकामुद्यच्छन्ति, सर्वाण्यपि कारकाणि पाकं साधयन्ति, तथा पदान्यपि सर्वाणि वाक्यार्थमन्ववगमयन्ति। वाक्यार्थश्च क्रियाकारकसंसर्गरूपः। तत्र कारकाणां क्रियासम्बन्धोन्मुखतया क्रियाणां च कारकविरहासहिष्णुत्वेनान्वितानामेव स्वशब्दै— रभिधानं भवति। एवं च सति वाक्यार्थस्य साक्षादेव शाब्दत्वमुपपद्यते, न त्वभिहितान्वयपक्षवत् पारम्पर्येणेति।