यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते।
तदन्वितं पदेनार्थः स्वकीयः प्रतिपाद्यते॥ ६६॥
पदार्थपर्यन्तापि च भवन्ती व्युत्पत्तिरीदृशी दृश्यते न शुद्धपदार्थविषया।
नियतं साधनं साध्ये क्रिया नियतसाधना।
स सन्निधानमात्रेण नियमः सम्प्रकाशते॥ ६७॥
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते।