यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥ ८०॥
यो न ददाति न यजते न जयति न जुहोति नात्ति नाधीते।
न धिनोति नाधितिष्ठति न चकास्ति न शास्ति किं तेन॥ ८१॥
लिङ्गविभक्तिवचनादेरन्यथोपात्तस्यार्थान्तरानुरोधादपुनरुच्चारितस्यैवान्यथाभि— सम्बन्धो विपरिणामः। तेषु लिङ्गविपरिणामो यथा— (मामा. १.३०)
मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥