अपि बृन्दावने शून्ये सृगालत्वं परीप्सति।
न तु निर्विषयं मोक्षं कदाचिदपि गौतमः॥ ७७॥
सत्यपि चार्थित्वे सामर्थ्यमधिकारकारणं, समुत्पन्नायामतिशयेन दिदृक्षायाम् असमर्थत्वेन अन्धा रूपदर्शने नाधिक्रियन्ते। अर्थिनः खल्वपि क्वचित् समर्थाश्च कर्मसु शास्त्रेण पर्युदासात् क्षुद्रशूद्राः क्षोत्रियादयः त्रय्यादिषु नाधिक्रियन्ते। अदृष्टार्थविषये हि सामर्थ्यासामर्थ्ये शास्त्रादेव समधिगम्येते। तस्मात् प्रधानमधिकारकारणं शास्त्रोपदेशमाचक्षते। तत्रोदाहरण्— (म.वी.च. १.३१)
साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः॥ ७८॥
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर ! विश्वमीशिषे।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः॥ ७९॥
वाक्यस्य न्यूनतायामाकाङ्क्षानिवृत्तये विशिष्टक्रियाकारकपदादेरुपादानम् अध्याहारः। यथा द्वारं द्वारमित्युक्ते संव्रियतामपाव्रियतां वेत्यध्याह्रियते; तथा वर्षत्युदेतीत्युक्ते देवः सूर्य इति। यथा च—