विभक्तिविपरिणामो यथा—(किराता. १.१)
श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।
स वर्णिलिङ्गी विदितस्समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥ ८३॥
वचनविपरिणामो यथा—(म.वी.च. १.४५)
सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष— स्तत्सङ्घट्टाद् विघटितबृहत्खण्डमुच्चण्डरोचिः।
एवं वेगात् कुलिशमकरोद् व्योम विद्युत्सहस्त्रै— र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः॥ ८४॥
सर्ववाक्यानां विधिनिषेधपर्यवसायित्वात् साक्षादश्रुतावपि तदुपकल्पनं वाक्यशेषः। तद्यथा — आर्यनिवासोऽयं देश इत्युक्ते इहैव स्थातव्यं, मध्याह्नो वर्तत इत्युक्ते इहैव भोक्तव्यं, सचोरः, पन्था इत्युक्ते न गन्तव्यं, ग्राहाः सरित्यस्यामित्युक्ते न स्नातव्यमिति वाक्यशेषो भवति। यथा च— (उराच. ३.२६)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण॥ ८५॥