भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 381 to 390 of 746 verses
साध्यत्वेन निमित्तानि क्रियापदमपेक्षते॥

(वाप. २.४७,४८)

एवं च सन्निहितयोग्याकाङ्क्षितोपरक्ते स्वार्थे क्‍वचिद्‍गृहीतसम्बन्धः सर्वत्र गृहीतो भवतीति नानन्त्यव्यभिचाराभ्यां सम्बन्धाग्रहणम्। न च कदम्बकार्थप्रतीतेः पदार्थात्प्रविभागः। तदुक्तम्—

आकाङ्क्षासन्निधिप्राप्‍तयोग्यार्थान्तरसङ्गतान्।

स्वार्थानाहुः पदानीति व्युत्पत्तिः संश्रिता यदा॥ ६९॥

(प्रप.८)

आनन्त्यव्यभिचाराभ्यां तदा दोषो न कश्चन।

कदम्बकार्थरूपायाः प्रतीतेश्च न सम्भवः॥ ७०॥

(प्रप.८/९)

इति। ततश्च पदपदार्थयोस्सम्बन्धग्रहणोपपत्तौ न प्रथम(म)श्रुतापि पदादर्थप्रतीतिः, न गामानयेति वाक्यादश्वबन्धननियोगः (न्यायमञ्जरी) न प्रतिवाक्यं व्युत्पत्त्यपेक्षा, न चाभिनवकविश्लोकवाक्यार्थप्रतीतिर्भवतीति।

Showing 381 to 390 of 746 verses